________________
140
द्वात्रिंशिका, १०
यथार्थं वा स्यात् संबन्धः शब्दादीन्द्रियचेतसाम् । तदस्य जगतः सत्त्वमात्मप्रत्ययलक्षणम् ॥ १४ ॥ द्रव्यपर्यायसंकल्पश्चेतस्तद्वयञ्जकं वचः । तद्यथा यच्च यावच्च निरवद्येति योजना ॥ १५ ॥ निषेकादिजरापाकपर्यन्तं पौरुषं यथा । सम्यग्दर्शनभावादिरप्रमादविधिस्तथा ॥ १६ ॥ शब्दादिषु यथा लोकश्चित्रावस्थः प्रवर्तते । तद्वृत्तमात्मप्रत्यक्षं त्याज्यमित्युभयो नयः ॥ १७ ॥ घृणानुकम्पा पारुष्यं कार्पण्यं परिशुद्धये । व्रतोपव्रतयुक्तस्तु स्मृतिस्थैर्योपपत्तये ॥ १८॥ उपधानविधिश्चित्रशेषाशयविशोधनः । न्याय्यो वातादिवैषम्यविशेषौषधकल्पवत् ॥ १९ ॥ न विधिः प्रतिषेधो वा कुशलस्य प्रवर्तितम् । तदेव वृत्तमात्मस्थं कषायपरिपक्तये ॥ २० ॥ न दोषदर्शनाच्छद्धं वैराग्यं विषयात्मसु । मृदुप्रवृत्त्युपायो ऽयं तत्त्वज्ञानं परं हितम् ॥ २१ ॥ श्रद्धावान् विदितापायः परिक्रान्तपरीषहः । भव्यो गुरुभिरादिष्टो योगाचारमुपाचरत् ॥ २२ ॥ शुचौ निष्कण्टके देशे समप्राणवपुर्मनाः । स्वस्तिकाद्यासनजयं कुर्यादेकाग्रसिद्धये ॥ २३ ॥ प्राणायामो वपुश्चित्रजाड्यदोषविशोधनः । शक्त्युत्कृष्टकलत्कार्यः प्रायेणश्वर्यसत्तमः ॥ २४ ॥ क्रूरक्लिष्टवितर्कात्मा निमित्तामयकण्टकात् । उद्धरेद्गतिशब्दादि वपुःस्वाभाव्यदर्शनात् ॥ २५ ॥ चरस्थिरमहत्सूक्ष्मसंज्ञाज्ञानार्थसंगतिः । यथासुखजयोपायमिति यायाज्जितं जिनम् ॥ २६ ॥ इत्याश्रवनिरोधो ऽयं कषायस्तम्भलक्षणः । तद्धर्म्यमस्माच्छुक्लं तु तमःशेषक्षयात्मकम् ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org