________________
द्वात्रिंशिका, १०
139
[१०]
अविग्रहमनाशंसमपरः प्रत्ययात्मकम् । यः प्रोवाचामृतं तस्मै वीराय मुनये नमः ॥ १॥ स्वशरीरमनो ऽवस्थाः पश्यतः स्वेन चक्षुषा । यथैवायं भवस्तद्वदतीतानागतावपि ॥२॥ किमत्राहं किमनहं किमनेकः किमेकधा । विदुषा चोद्यतं चक्षुरत्रैव च विनिश्चयः ॥ ३॥ मोहो हमस्मीत्याबन्धः शरीरज्ञानभक्तिषु । ममत्वविषयास्वादद्वेषात्तस्मात्तु कर्मणः ॥ ४ ॥ जन्मकर्मविशेषेभ्यो दुःखापातस्तदेव वा । आजस्रिकमपश्याना नानात्मव्यक्तचक्षुषाम् ॥ ५॥ पिपासाभ्युदयः सर्वो भवोपादानसाधनः । प्रदोषापायगमनादातरौद्रे तु ते मते ॥६॥ आलम्बनपरीणामविशेषोद्भवभक्तयः । निमित्तमनयोराद्यं परिणामस्तु कारणम् ॥ ७॥ भवः प्रमादचिन्तादिप्रवृत्तिद्वारसंग्रहः । हिंसादिभेदोपचयः संवरैकपराभवः ॥ ८॥ परस्परसमुत्थानां विषयेन्द्रियसंविदः । पित्रादिवदभिन्नास्तु विषया भिन्नवृत्तयः ॥ ९॥ एकस्मिन् प्रत्यये ऽष्टाङ्गकर्मसामर्थ्यसंभवात् । नानात्वैकपरीणामसिद्धिरष्टौ तु शक्तितः ॥१०॥ नाहमस्मीत्यसद्भावे दुःखोद्वेगहितैषिता । न नित्यानित्यनानैक्यं कर्ताधकान्तपक्षतः ॥ ११ ॥ उत्पत्तेरेव नित्यत्वमनित्यत्वं च मन्यते । प्रतीत्य संविद्भावस्तु कारकेषूपनीयते ॥ १२ ॥ जातिलिङ्गपरीणामकालव्यक्तिप्रयोजनाः । संज्ञा मिथ्यापरा दृष्टाः परिक्षिण्वन्त्यचेतसः ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org