________________
138
द्वात्रिंशिका, ९
अयमेवान्तश्चरति देवतानामस्मिन् देवा अधि विश्वे निषेदुः । अयमुद्दण्डः प्राणभुक् प्रेतयानरेष त्रिधा बद्धो वृषभो रोरवीति ॥ १९ ॥ अपां गर्भः सविता वह्निरेष हिरण्मयश्चान्तरात्मानसो देवयानः । एतेन स्तम्भिता सुभगा द्यौर्नभश्च गुरू चोर्वो सप्त च भीमयादसः ॥ २० ॥ मनः सोमः सविता चक्षुरस्य घ्राणं प्राणो मुखमस्याद्यपिवं दिशः । श्रोत्रनाभिरन्ध्राभादयानं पादाविलाः सुरसाः सर्वमाप ॥२१॥ विष्णुर्बोजमम्भोजगर्भः शंभुश्चायं कारणं लोकसृष्टौ । नैनं देवा विद्रते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च ॥ २२ ॥ अस्मिन्नुदेति सविता लोकचक्षुरस्मिन्नस्तं गच्छति चांशुगर्भः । एषो ऽजस्रं वर्तते कालचक्रमेतेनायं जीवते जीवलोकः ॥ २३ ॥ अस्मिन् प्राणाः प्रतिबद्धाः प्रजानामस्मिन्नस्ता रथनाभा विवाराः । अस्मिन् प्रीते शीर्णमूलाः पतन्ति प्राणाशंसाफलमिव मुक्तवन्तम् ॥ २४ ॥ अस्मिन्नेकशतं निहितं मस्तकानामस्मिन् सर्वा भूतयश्चेतयश्च । महान्तमेनं पुरुषं वेदवेद्यं आदित्यवर्णं तमसः परस्तात् ॥ २५ ॥ विद्वानज्ञश्चेतनो ऽचेतनो वा स्रष्टा निरीहः स ह पुमानात्मतन्त्रः । क्षराकारः सततं चाक्षरात्मा विशीर्यन्ते वाचो युक्तयो ऽस्मिन् ॥ २६ ॥ बुद्धिबोद्धा बोधनीयो ऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा । नासावेकं नापृथग नाभितोभौ सर्वं चैतत्पशवो यं द्विषन्ति ॥ २७॥ सर्वात्मकं सर्वगतं परीतमनादिमध्यान्तमपुण्यपापौ। बालं कुमारमजरं च वृद्धं य एनं विदुरमृतास्ते भवन्ति ॥ २८॥ नास्मिन् ज्ञाते ब्रह्मणि ब्रह्मचर्य नेज्जाजापः स्वस्तयो नो पवित्रम् । नाहं नान्यो नो महान्नो कनीयान् निःसामान्यो जायते निविशेषः ॥ २९ ॥ नैनं मत्वा शोचते नाभ्युपैति नाप्याशास्ते म्रियते जायते वा । नास्मिल्लोके गृह्यते नो परस्मिल्लोकातीतो वर्तते लोक एव ॥ ३०॥ यस्मात्परं नापरमस्ति किंचिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ॥ ३१ ॥ नानाकल्पं पश्यतो जीवलोकं नित्यासक्तव्याधयश्चाधयश्च । यस्मिन्नेवं सर्वतः सर्वतत्त्वे दृष्टे देवे नो पुनस्तापमेति ॥ ३२ ॥
॥ इति वेदवादद्वात्रिंशिका नवमी ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org