________________
द्वात्रिंशिका, ९
सर्वद्वारा निभृतमृत्युपाशैः स्वयंप्रभानेकसहस्रपर्वाः । यस्यां वेदाः शेरते यज्ञगर्भाः सैषा गुहा गूहते सर्वमेतत् ॥ ५ ॥ भावाभावो निःस्वतत्त्वो निरञ्जनो [रञ्जनो ] यः प्रकारः । गुणात्मको निर्गुणो निष्प्रभावो विश्वेश्वरः सर्वमयो न सर्वः ॥ ६ ॥ सृष्ट्रा सृष्ट्रा स्वयमेवोपभुङ्क्ते सर्वश्चायं भूतसर्गो यतश्च । न चास्यान्यत्कारणं सर्गसिद्धौ न चात्मानं सृजते नापि चान्यान् ॥ ७ ॥ निरिन्द्रियश्चक्षुषा वेत्ति शब्दान् श्रोत्रेण रूपं जिघ्रति जिह्वया च । पादैर्ब्रवीति शिरसा याति तिष्ठन् सर्वेण सर्वं कुरुते मन्यते च ॥ ८ ॥ शब्दातीतः कथ्यते वावदूकैर्ज्ञानातीतो ज्ञायते ज्ञानविद्भिः । बन्धातीतो बध्यते क्लेशपाशैर्मोक्षातीतो मुच्यते निर्विकल्पः ॥ ९ ॥ नायं ब्रह्मा न कपर्दो न विष्णुर्ब्रह्मा चायं शंकरश्चाच्युतश्च । अस्मिन्मूढाः प्रतिमाः कल्पयन्तो ज्ञातश्चायं न च भूयो नमोऽस्ति ॥ १० ॥ आपो वह्निर्मातरिश्वा हुताशः सत्यं मिथ्या वसुधा मेघयानम् । ब्रह्मा कीटः शंकरस्तार्क्ष्यकेतुः सर्वः सर्वं सर्वथा सर्वतो ऽयम् ॥ ११ ॥ स एवायं निभृता येन सत्त्वाः शश्वदुःखा दुःखमेवापि यन्ति । स एवायमृषयो यं विदित्वा व्यतीत्य नाकममृतं स्वादयन्ति ॥ १२ ॥ विद्याविद्ये यत्र न संभवेते यन्नासन्नं नो दवीयो न गम्यम् । यस्मिन्मृत्युर्नेहते नोतुकामा स सो ऽक्षरः परमं ब्रह्म वेद्यम् ॥ १३ ॥ ओतप्रोताः पशवो येन सर्वे ओतः प्रोतः पशुभिश्चैष सर्वैः । सर्वे चेमे पशवस्तस्य होम्यं तेषां चायमीश्वरः संवरेण्यः ॥ १४ ॥ तस्यैवैता रश्मयः कामधेनोर्याः पाप्मानमंदुहानाः क्षरन्ति । येनाध्याताः पञ्चञ्जनाः स्वपन्ति प्रोद्बुद्धास्ते स्वं परिवर्तमानाः ॥ १५ ॥ तमेवाश्वत्थमृषयो वामनन्ति हिरण्मयं व्यस्तसहस्रशीर्षम् ।
मनःशयं शतशाखप्रशाखं यस्मिन् बीजं विश्वमोतं प्रजानाम् ॥ १६ ॥
137
स गीयते वीयते चाध्वरेषु मन्त्रान्तरात्मा ऋग्यजुःसामशाखः । अधःशयो वितताङ्गो गुहाध्यक्षः स विश्वयोनिः पुरुषो नैकवर्णः ॥ १७ ॥ तेनैवैतद्विततं ब्रह्मजालं दुराचरं दृष्ट्युपसर्गपाशम् ।
अस्मिन्मग्ना मानवा मानशल्यविवेष्यन्ते पशवो जायमानाः ॥ १८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org