________________
136
ज्ञेयः परसिद्धान्तः स्वपक्षबलनिश्चयोपलब्ध्यर्थम् । परपक्षक्षोभणमभ्युपेत्य तु सतामनाचारः ॥ १९ ॥ स्वहितायैवोत्थे को नानामतिविचेतनं लोकम् । यः सर्वज्ञैर्न कृतः शक्ष्यति तं कर्तुमेकमतम् ॥ २० ॥ सर्वज्ञविषयसंस्थांइछद्मस्थो न प्रकाशयत्यर्थान् । नाश्चर्यमेतदत्यद्भुतं तु यत्किचिदपि वेत्ति ॥ २१ ॥ अविनिर्णयगम्भीरं पृष्टः परुषोत्तरो भवति वादी । परिचित गुणवात्सल्यः प्रीत्युत्सवमुन्नतिं कुरुते ॥ २२ ॥ विनयमधुरोक्तिनिर्मममसारमपि वाक्यमास्पदं लभते । सारमपि गर्वदृष्टं वचनमपि मुनेर्वहति वायुः ॥ २३ ॥ परुषवचनोद्यतमुखैः काहलजनचित्तविभ्रमपिशाचैः । धूर्तेः कलहस्य कृतो मीमांसा नाम परिवर्तः ॥ २४ ॥ परिनिग्रहाध्यवसितश्चित्तैकाग्र्यमुपयाति तद्वादी । यदि तत्स्याद्वैराग्येण चिरेण शिवं पदमुपयातु ॥ २५ ॥ एकमपि सर्वपर्ययनिर्वचनीयं यदा न वेत्त्यर्थम् । मां प्रत्यहमिति गर्वः स्वस्थस्य न युक्त इह पुंसः ॥ २६ ॥ ॥ इति वादद्वात्रिंशिकाष्टमी ॥ ८ ॥
द्वात्रिंशिका, ८- ९
[९]
अजः पतङ्गः शबलो विश्वमयो धत्ते गर्भमचरं चरं च । यो ऽस्याध्यक्षमकलं सर्वधान्यं वेदातीतं वेदवेद्यं स वेद ॥ १ ॥
स एवैतद्विश्वमधितिष्ठत्येकस्तमेवैतं विश्वमधितिष्ठत्येकम् । स एवैतद्वेद यदिहास्ति वेद्यं तमेवैतद्वेद यदिहास्ति वेद्यम् ॥ २ ॥
स एवैतद्भवनं सृजति विश्वरूपस्त मेवैतत्सृजति भुवनं विश्वरूपम् । न चैवैनं सृजति कश्चिन्नित्यजातं न चासौ सृजति भुवनं नित्यजातम् ॥ ३ ॥ एकायनशतात्मानमेकं विश्वात्मानममृतं जायमानम् ।
यस्तं न वेद किमूचा करिष्यति यस्तं न वेद किमृचा करिष्यति ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org