SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका, ८ अन्यैः स्वेच्छा रचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खादन्त्यङ्गानि दर्पेण ॥ ५ ॥ दृष्ट्रा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः । वादिनि चपले मुग्धे च तादृगेवान्तरं गच्छेत् ॥ ६॥ अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः । वाक्संरम्भः क्वचिदपि न जगाद मुनिः शिवोपायम् ॥ ७ ॥ यद्यकलहाभिजातं वाक्छलरङ्गावतारनिर्वाच्यम् । स्वच्छमनोभिस्तत्त्वं परिमीमांसेन्न दोषः स्यात् ॥ ८ ॥ साधयति पक्षमेको ऽपि हि विद्वान् शास्त्रवित्प्रशमयुक्तः । न तु कलहकोटिकोट्यो ऽपि समेता ( संगता) वाक्यलालभुजः ॥ ९ ॥ आर्तध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्य । चिन्तयति पक्षनयहेतुशास्त्रवाग्बाणसामर्थ्यम् ॥ १०॥ हेतुविदसौ न शाब्दः शाब्दो ऽसौ न तु विदग्धहेतुकथः । उभयज्ञो भवपटुः पटुरन्यो ऽसौ स्वमतिहीनः ॥ ११ ॥ सा नः कथा भवित्री तत्रैता जातयो मया योज्याः । इति रागविगतनिद्रो वाग्मुखयोग्यां निशि करोति ॥ १२ ॥ अशुभ वितर्क धूमितहृदयः कृत्स्नां क्षपामिति न शेते । कुण्ठितदर्पः परिषदि वृथात्मसंभावनोपहतः ॥ १३ ॥ प्राश्निकचाटुप्रणतः प्रतिवक्तरि मत्सरोष्णबद्धाक्षः । ईश्वररचिताकुम्भो भरतक्षेत्रोत्सवं कुरुते ॥ १४ ॥ यदि विजयते कथंचित्ततो ऽपि परितोषभग्नमर्यादः । स्वगुणविकत्थनदूषिकस्त्रीनपि लोकान् खलीकुरुते ॥ १५ ॥ उत जीयते कथंचित्परिषत्परिवादिनं स कोपान्धः । गलगर्जेनाक्रामन्वैलक्ष्यविनोदनं कुरुते ॥ १६॥ वादकथां न क्षमते दीर्घं निःश्वसिति मानभङ्गोष्णम | रम्ये प्रतिज्वरितः सुहृत्स्वपि वज्रीकरणवाक्यः ॥ १७ ॥ दुःख महंकारप्रभवमित्ययं सर्वतन्त्र सिद्धान्तः । अथ च तमेवारूढस्तत्त्वपरीक्षां किल करोति ॥ १८ ॥ Jain Education International 135 For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy