________________
134
द्वात्रिंशिका, ७-८
किं गजितेन रिपुषु त्वभितोमुखेषु किं त्वेव निर्दयविरूपितपौरुषेषु । वाग्दीपितं तृणकृशानुबलं हि तेजः कल्पात्ययस्थिरविभूतिपराक्रमोत्थम् ॥ २९ ॥ किंचित्सुनीतमपि दुर्नयवद्विनेयं दुर्नीतमप्यतिशयोक्तमिव प्रशस्यम् । सर्वत्र हि प्रतिनिविष्टमुखोत्तरस्य सूक्तं च दुर्विगणितं च समं समेन ॥ ३० ॥ तिर्यग्विलोकयति साध्वसविप्लुताक्षं श्लिष्टाक्षरं वदति वाक्यमसंभृतार्थम् । दृष्टा हतः स्खलति विश्रुतकक्षसेकं कण्ठं महः कषति चापि कथाभ्यरिष्टः ॥ ३१॥
परिचितनयः स्फीतार्थो ऽपि श्रियं परिसंगतां न नृपतिरलं भोक्तुं कृत्स्नां कृशोपनिषद्वलः । विदितसमयो ऽप्येवं वाग्मी विनोपनिषत्क्रियां न तपति यथा विज्ञातारस्तथा कृतविग्रहाः ॥ ३२ ॥ ॥ इति वादोपनिषद्द्वात्रिंशिका सप्तमी ॥
[८]
ग्रामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः । स्यात्सौख्यमपि शुनोर्धात्रोरपि वादिनोर्न स्यात् ॥ १॥ क्व च तत्त्वाभिनिवेशः क्व च संरम्भातुरेक्षणं वदनम् । क्व च सा दीक्षा विश्वसनीयरूपतामृजुर्वादः ॥२॥ तावद्वकमुग्धमुखस्तिष्ठति यावन्न रङ्गमवतरति । रङ्गावतारमत्तः काकोद्धतनिष्ठुरो भवति ॥ ३ ॥ क्रीडनकमीश्वराणां कुर्कुटलावकसमानबालेभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org