________________
द्वात्रिंशिका, ७
133
ग्रन्थाभिचारनिपुणे बह न प्रयोज्यं मत्वा विशेज्जनमनांसि सतामतीव । आशङ्कितानपि दिशः पुरुषस्य यातुः कीर्त्यक्षमा परिहरेदिति तत्प्रसक्तः ॥ २२ ॥ एकान्वयोत्तरगतिः परिदृष्टपन्थाः प्रत्याहतश्च चतुरस्रमपाहतश्च । तस्मात्परोत्तरगतौ प्रणिधानवान् स्यान् नानामुखप्रहरणश्च पते (यते)द्विषत्सु ॥ २३ ॥ शास्त्रोत्थितान्परिभवः खलतामुपैति तान्येव तु स्मितगभीरमुपालभेत । अस्मद्गुरुं स हसतीति विदह्यमानं व्युत्पादयन्ति हि यशांस्थत एव भूयः ॥ २४ ॥ अङ्गाभिधानमफलं प्रकृतोपशान्तौ वक्तारमन्ववसिता न हि शास्त्रदोषाः । सत्यं तु लाघवमनेन पथाभ्युपैति तच्चेदवाप्तमरतिश्रुतिभिः किमत्र ॥ २५ ॥ किं मर्म नाम रिपुषु स्थिरसाहसस्य मर्मस्वपि प्रहरति स्ववधाय मन्दः । आशीविषो हि दशनैः सहजोग्रवीयः क्रीडन्नपि स्पृशति यत्र तदेव मर्म ॥ २६ ॥ मन्दो ऽप्यहार्यवचनः प्रशमानुयातः स्फीतागमो ऽप्यनिभृतः स्मितवस्तु पुंसाम् । तस्मात्प्रवेष्टुमुदितेन सभामनांसि यत्नः श्रुताच्छतगुणः सम एव कार्यः ॥ २७ ॥ आक्षिप्य यः स्वसमयं परिनिष्ठुराक्षः पश्यत्यनाहतमनाश्च परप्रवादान् । आक्रम्य पार्थिवसभाः स विरोचमानः शोकप्रजागरकृशान् द्विषतः करोति ॥ २८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org