SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 132 भूयिष्ठमुन्नदति यस्य कृतान्तदोषान् यं वा जिगीषति तमुत्सहते ऽपि वा यः । ये चाप्यनेन मुकुलप्रतिभाः कदाचित् तेष्वस्य वाक्यमवतीर्य विनोदनीयम् ॥ १५ ॥ कृत्येषु नादरविषक्तविलोचनः स्यात् तत्संकथाप्रणिहितोपहतास्तु साध्याः ॥ युक्तोपनीत परिहासमुखांश्च कुर्वन् पक्षद्विषा परुषयेत्सदसि प्रधानम् ॥ १६ ॥ उद्धूतवाग्मियशसा जनसंप्रियेण पूर्व विसृष्टवचनप्रतिभागुणेन । वाच्यं सह प्रतिहतो ऽपि हि तेन भाति जित्वा पुनस्तमतिकीर्तिफलानि भुङ्क्ते ॥ १७ ॥ वीरोत्तरं परमशक्यमवेत्य कार्य क्षेपं प्रमोहविकथासु परः प्रयत्नः । अन्यो हि धीरितकथाविधुरस्य शब्दः संदिग्धतुल्यगुणदोषपथस्य चान्यः ॥ १८ ॥ शिष्येषु वाक्यखनयः प्रतिबोधनीयाः सिद्धिस्तथा हि नियता नयवाददोषाः । अभ्युद्गतस्य हि कथाविषमा हिरोहि तेजः सकृत्प्रतिहतं च न चास्ति भूयः ॥ १९ ॥ सिध्यन्तरं न महतः परिभूय वादान् स्यादजतस्तु विजय प्यपवाद एव । तस्मान्न वादगहनान्यभिलक्षितस्य युक्तं विगाहितमनुत्रसतः परेभ्यः ॥ २० ॥ आम्नायमार्गसुकुमारकृताभियोगा क्रूरोत्तरैरभिहतस्य विलीयते धीः । नीराजितस्य तु सभाभटसंकटेषु शुद्धप्रहारविभवा रिपवः स्वपन्ति ॥ २१ ॥ Jain Education International For Personal & Private Use Only द्वात्रिंशिका, ७ www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy