________________
द्वात्रिंशिका, ७
131
नावैमि किं वदसि कस्य कृतान्त एष सिद्धान्तयुक्तमभिधत्स्व कुहैतदुक्तम् । ग्रन्थो ऽयमर्थमवधारय नैष पन्थाः क्षेपो ऽयमित्यविशदागमतुण्डबन्धः ॥ ८॥ किंचित्कथंचिदिति साध्यनिगढवाचः सिद्धान्तदुर्गमवतार्य विनोदनीयाः । धीरस्मितैः प्रतिकथागुणदर्शनैश्च छद्मानवस्थितकथा हि पिबन्ति तेजः ॥९॥ दुर्भातमुन्नयति सूक्तमपक्षपातैर् निस्तर्जयञ्छठविदग्धमलंकरोति । भग्नाभिसंधिरपि यानि कथान्तराणि प्रश्नच्छलप्रहरणो ऽयमवन्ध्यविघ्नः ॥ १० ॥ उक्तं यथाक्षरपदं प्रतियोजयन्ति प्रत्युद्वहन्त्यपि जनाचरणैर्वचोभिः । सद्भावरिक्तमनसश्च सुविस्मितस्तां वाक्यप्रयोजनजडानभिसंदधीत ॥ ११ ॥ मूर्खव्रजेष्वनुमतिप्रतिभाविकारान् विद्वत्सदस्सु निरपेक्ष्य हताभिमानाः । उक्त्वा चिरं मदसमुच्छ्यगवितानि नाम्नापि तस्य भयकुञ्चितमुच्छुसन्ति ॥ १२ ॥ लोकप्रसिद्धमतयः श्रुतगूढवादः साध्याः श्रुतैकरुचयस्त्वपि (यि) लोकचित्रैः । सामान्यदुर्बलविनिश्चितसंकथाभिर् मानप्रवासनमुदारमतेविधेयम् ॥ १३ ॥ आस्फालयन् दुरितसूचनधीरहस्तैर् वाक्यान्तरेषु विकिरन् पुरुषः स्फुलिङ्गः । स्वच्छभ्रुवा कृतकरूपितविस्मयेन छिन्नस्मितैरविनयोत्तर एव कार्यः ॥ १४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org