________________
130
[७]
धर्मार्थकीर्त्यधिकृतान्यपि शासनानि न ह्वानमात्रनियमात् प्रतिभान्ति लक्ष्म्या । संपादनृपसभासु विगृह्य तानि येनाध्वना तमभिधातुमविघ्नमस्तु ॥ १ ॥
साध्याहृते न विजयः सुलभः सदस्सु पार्श्वस्थितेषु हि जयश्च पराजयश्च । तस्मादविक्लवमनुल्बणसाधुकारं सामप्रवीणगणनासमयेषु योज्यम् ॥ २ ॥
प्राक्तावदीश्वरमनः सदसश्च चक्षुर् मन्तव्यमात्मनि परत्र च किंप्रकारम् । यद्यात्मनो हि परिहासजयोत्तरं स्याद् उक्तोपचारचतुरः प्रतिभो ऽन्यथा तु ॥ ३ ॥ सौम्य प्रभुर्यदि विपक्षमुखाः सदस्यास् तत्साधुरेव गमयेत्परिभूय शेषान् । तस्मिन् सुभद्रचरितेऽप्युचितः प्रसादः सत्कृत्य विग्रहवचः स्तिमितं निहन्यात् ॥ ४ ॥
आभाष्य भावमधुरापितया कृतास्त्रां दृष्ट्यावसाद्य च निर्वाततया विनेयान् । ब्रूयात्प्रतीतसुखशब्दमुपस्थितार्थं
नोच्चैर्न मन्दमभिभूय मनः परस्य ॥ ५ ॥
वादास्पदं प्रतिवचश्च यथोपनीतम् आरोप्य यः स्मृतिपथ: प्रतिसंविधत्ते । वैलक्ष्यविस्मृतमदा द्विषतः स सूक्तैः प्रत्यानयन्परिजनीकुरुते सदस्यान् ॥ ६ ॥ पूर्वं स्वपक्षरचना रभसः परस्य वक्तव्यमार्गमनियम्य विजृम्भते यः । आपीड्यमानसमयः कृतपौरुषो ऽपि
नोच्चैः शिरः स वदति प्रतिभानवत्सु ॥ ७ ॥
Jain Education International
For Personal & Private Use Only
द्वात्रिंशिका, ७
www.jainelibrary.org