________________
128
द्वात्रिंशिका, ६
मनुष्यवृत्तानि मनुष्यलक्षणैर्मनुष्यहेतोनियतानि तैः स्वयम् । अलब्धपाराण्यलसेषु कर्णवानगाधपाराणि कथं ग्रहीष्यति ॥ ७॥ यदेव किंचिद्विषमप्रकल्पितं पुरातनरुक्तमिति प्रशस्यते । विनिश्चिताप्यद्य मनुष्यवाक्कृतिर्न पाटयते यत्स्मृतिमोह एव सः ॥ ८॥ न विस्मयस्तावदयं यदल्पतामवेत्य भूयो विदितं प्रशंसति । परोक्षमेतत्त्वधिरुह्य साहसं प्रशंसतः पश्यत किं नु भेषजम् ॥९॥ परीक्षितुं जातु गुणौघ शक्यते विशिष्य ते तर्कपथोद्धतो जनः । यदेव यस्याभिमतं तदेव तच्छिवाय मूरिति मोहितं जगत् ॥ १० ॥ परस्परावथितया तु साधुभिः कृतानि शास्त्राण्यविरोधशिभिः । विरोधशीलस्त्वबहुश्रुतो जनो न पश्यतीत्येतदपि प्रशस्यते ॥ ११ ॥ यदग्निसाध्यं न तदम्भसा भवेत् प्रयोगयोग्येषु किमेव चेतसा । समेष्वरागो ऽस्य विशेषतो नु किं विमृश्यतां वादिषु साधुशीलता ॥ १२ ॥ यथैव दुष्टं तपसा तथा कृतं न युक्तिवादो ऽयमरिदं वचः । सुबुद्धमेवेति विशेषतो नु कि प्रशंसति क्षेपकथा किलेतरा ॥ १३ ॥ कथं नु लोके न समानचक्षुषो यथा न पश्यन्ति वदन्ति तत्तथा । अहो न लोकस्य न चात्मनः क्षमा पुरातननिहतैरुपेक्षितम् ॥ १४ ॥ वृथा नृपैर्भर्तुमदः समुह्यते धिगस्तु धर्म कलिरेव दीप्यते । यदेतदेवं कृपणं जगच्छ?रितस्ततो ऽनर्थमुखैविलुप्यते ॥ १५ ॥ यदा न शक्नोति विगृह्य भाषितुं परं च विद्वत्कृतशोभमीक्षितुम् । अथाप्तसंपादितगौरवो जनः परीक्षकक्षेपमुखो निवर्तते ॥ १६ ॥ त्वमेव लोके ऽद्य मनुष्य पण्डितः खलो ऽयमन्यो गुरुवत्सलो जनः । स्मृति लभस्वारम नेति शोभसे दृढश्रुनरुच्छसितुं न लभ्यते ॥ १७ ॥ परे ऽद्य जातस्य किलाद्य युक्तिमत् पुरातनानां किल दोषवद्वचः । किमेव जाल्मः कृत इत्युपेक्षितुं प्रपञ्चनायास्य जनस्य सेत्स्यति ॥ १८॥ त्रयः पृथिव्यामविपन्नचेतसो न सन्ति वाक्यार्थपरीक्षणक्षमाः । यदा पुनः स्युर्ब्रहदेतदुच्यते न मामतीत्य त्रितयं भविष्यति ॥ १९ ॥ पुरातनैर्यानि वितर्कवितैः कृतानि सर्वज्ञयशःपिपासुभिः । घृणा न चेत्स्यान्मयि न व्यपत्रपा तथाहमचैव न चेद्धिगस्तु माम् ॥ २० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org