SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका, ५-६ यथा भवांस्ते ऽपि किलापवर्गमागं पुरस्कृत्य तथा प्रयाताः । स्वैरेव तु व्याकुलविप्रलापैरस्वादुनिष्ठैर्गमिता लघुत्वम् ॥ २८ ॥ रागात्मनां कोपपराजितानां मानोन्नतिस्वीकृतमानसानाम् । तमोजलानां स्मृतिशोभिनां च प्रत्येकभद्रान्विनयानवोचः ॥ २९ ॥ वाद्यम्बुशेवालकणाशिनो ऽन्ये धर्मार्थमुग्राणि तपांसि तप्ताः । त्वया पुनः क्लेशचमूविनाशभक्तो ऽपि धर्मो विजिताश दग्धः ॥ ३० ॥ नानाशास्त्रप्रगम महतीं रूपिणीं तां नियच्छन् शक्रस्तावत्तव गुणकथाव्यापृतः खेदमेति । at sort योग्यस्तव गुणनिधिर्वक्तुमुक्त्वा नयेन त्यक्ता लज्जा स्वहितगणनानिविशङ्कं मयैवम् ॥ ३१ ॥ इति निरुपमयोगसिद्धसेनः प्रबलतमोरिपुनिर्जयेषु वीरः । दिशतु सुरपुरुष्टुतस्तुतो नः सततविशिष्ट शिवाविकारि धाम ॥ ३२ ॥ ॥ इति पञ्चमी स्तुतिद्वात्रिंशिका ॥ ५ ॥ [६] यदशिक्षित पण्डितो जनो विदुषामिच्छति वक्तुमग्रतः । न च तत्क्षणमेव शीर्यते जगतः किं प्रभवन्ति देवताः ॥ १ ॥ पुरातनैर्या नियता व्यवस्थितिस्तत्रैव सा किं परिचिन्त्य सेत्स्यति । तथेति वक्तुं मृतरूढ गौरवादहन जातः प्रथयन्तु विद्विषः ॥ २ ॥ न खल्विदं सर्वमचिन्त्यदारुणं विभाव्यते निम्नजलस्थलान्तरम् । अचिन्त्यमेतत्त्वभिगृह्य चिन्तयेच्छुचः परं नापरमन्यदा क्रिया ॥ ३ ॥ बहुप्रकाराः स्थितयः परस्परं विरोधरूक्षाः कथमाशु निश्चयः । विशेषसिद्धानि यमेव नेति वा पुरातनप्रेम जलस्य युज्यते ॥ ४ ॥ जनो ऽयमन्यस्य मृतः पुरातनः पुरातनैरेव समो भविष्यति । पुरातनेष्वित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् ॥ ५ ॥ विनिश्चयं नैति यथा यथालसस्तथा तथा निश्चितवत्प्रसीदति । अवन्ध्यवाक्ये गुरवोऽहमल्पधीरिति व्यवस्यन् स्ववधाय धावति ॥ ६ ॥ Jain Education International 127 For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy