________________
126
द्वात्रिंशिका, ५
संकीर्णदैत्यामरपौरवर्गमत्यद्भुतं तन्महिमानमीक्ष्य । भवाभवाभ्युत्थितचेतसस्ते यद्विस्मयो नाम स विस्मयो ऽयम् ॥ १४ ॥ प्रतीच्छतस्ते सुरपस्य केशान् क्षीरार्णवोपायनलब्धबुद्धेः । प्रसादसायामतरं तदाभूदक्षणां यथार्थानिमिषां सहस्रम् ॥ १५॥ अज्ञातचर्यामनुवर्तमानो यदुदुर्जनाधृष्यवपुस्त्वमासीः । नानासनोच्चावचलक्षणाङ्कमूर्तेस्तदत्यद्भुतमीहितं मे ॥ १६ ॥ शिवाशिवव्याहतनिष्ठुरायां रक्षःपिशाचोपवनान्तभूमौ । समाधिगुप्तः समजागरूकः कायं समुत्सृज्य विनायकेभ्यः ॥ १७ ॥ वन्ध्याभिमानं कृतवानसि ह्रीसंसर्गपात्रं जिन संगम यत् । प्रीतत्रिनेत्राचितनत्तपुष्यैस्तेनासि लोकत्रयवीर वीरः ॥ १८ ॥ आनन्दनृत्तप्रचलाचला भूः प्रत्युद्धतोद्वेलजलः समुद्रः । सौम्यो ऽनिलः स्पर्शसुखे ऽभिजातः शुभाभिधाना मृगपक्षिणश्च ॥ १९ ॥ सर्वावतारः सुरदैत्यनागगरुत्मतां प्रोषितमत्सराणाम् । बभूवुरन्यानि च ते ऽद्भुतानि त्रैलोक्यविघ्नेश्वरमोहशान्तौ ॥२०॥ उत्साहशौण्डीर्यविधानगुर्वी मूढा जगव्यष्टिकरी प्रतिज्ञा । अनन्तमेकं युगपत्रिकालं शब्दादिभिनिःप्रतिघातवृत्तिः ॥ २१ ॥ दुरापमाप्तं यदचिन्त्यभूतिज्ञानं त्वया जन्मजरान्तकर्तृ । तेनासि लोकानभिभूय सर्वान् सर्वज्ञ लोकोत्तमतामुपेतः ॥ २२ ॥ अन्ये जगत्संकथिका विदग्धा सर्वज्ञवादान् प्रवदन्ति तीर्थ्याः। यथार्थनामा तु तवैव वीर सर्वज्ञता सत्यमिदं न रागः ॥ २३ ॥ रविः पयोदोदररुद्धरश्मिः प्रबुद्धहासैरनुमीयते जैः । भवानुदारातिशयप्रवादः प्रणेतृवीर्योच्छिखरः प्रयत्नैः ॥ २४ ॥ नाथ त्वया देशितसत्पथस्थाः स्त्रीचेतसो ऽप्याशु जयन्ति मोहम् । नैवान्यथा शीघ्रगतिर्यथा गां प्राची यियासुविपरीतयायी ॥ २५ ॥ अपेतगुह्यावचनीयशाठयं सत्त्वानुकम्पासकलप्रतिज्ञम् । शमाभिजातार्थमनर्थघाति सच्छासनं ते त्वमिवाप्रधृष्यम् ॥ २६ ॥ यथापरे लोकमुखप्रियाणि शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यरनुज्ञामलिनोपचारैर्वक्त्तृत्वदोषास्त्वयि ते न सन्ति ॥ २७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org