________________
द्वात्रिंशिका, ५
125
आराध्यसे त्वं न च नाम वीर स्तवैः सतां चैष हिताभ्युपायः । त्वन्नामसंकीर्तनपूतयत्नः सद्भिर्गतं मार्गमनुप्रपत्स्ये ॥१॥ जाने यथास्मद्विधविप्रलापः क्षेपः स्तवो वेति विचारणीयम् । भक्त्या स्वतन्त्रस्तु तथापि विद्वन् क्षमावकाशानुपपादयिष्ये ॥२॥ गम्भीरमम्भोनिधिनाचलैः स्थितं शरदिवा निर्मलमिष्टमिन्दुना । भुवा विशालं द्युतिमद्विवस्वता बलप्रकर्षः पवनेन वर्ण्यते ॥ ३ ॥ गुणोपमानं न तवात्र किंचिदमेयमाहात्म्यमसमञ्जसं यत् । समेन हि स्यादुपमाभिधानं न्यूनो ऽपि तेनास्ति कुतः समानः ॥ ४ ॥ अमोहयत्तां वसुधावधूं यन्मानानुरोधेन पितुश्चकर्ष । ज्ञानत्रयोन्मीलितसत्पथो ऽपि तत्कारणं को ऽच्युत मन्तुमीशः ॥ ५॥ अनेकजन्मान्तरभग्नमानः स्मरो यशोदाप्रिय यत्पुरस्ते । चचार नि_कशरस्तमर्थं त्वमेव विद्याः सुनयज्ञ को ऽन्यः ॥ ६ ॥ अबद्धखेदोपनतैरनेकरसाध्यरागाविषमोपचारैः । नरेश्वरैरात्महितानुरक्तैश्चूडामणिापृतपादरेणुः ॥ ७॥ स्वयंप्रभूतैनिधिभिनिवृत्तैः प्रत्येकमम्भोनिचयप्रसूतैः । आशासनं सर्वजनोपभोग्यैर्धनेश्वरः प्रीतिकरः प्रजानाम् ॥ ८॥ दिक्पालभुक्त्या वसुधां नियच्छन् प्रबोधितो नाम सुरैः समायः । लक्ष्म्या निसर्गोचितसंगतायाः सितातपत्रप्रणयं व्यनौत्सीत् ॥ ९॥ अपूर्वशोकोपनतलमानि नेत्रोदकक्लिन्नविशेषकाणि । विविक्तशोभान्यबलाननानि विलापदाक्षिण्यपरायणानि ॥१०॥ मुग्धोन्मुखाक्षाण्युपदिष्टवाक्यसंदिग्धजल्पानि पुरःसराणि । बालानि मार्गाचरणक्रियाणि प्रलम्बवस्त्रान्तविकर्षणानि ॥ ११॥ अकृत्रिमस्नेहमयप्रदीर्घदोनेक्षणाः साश्रुमुखाश्च पौराः । संसारसात्म्यज्ञजनकबन्धो न भावशुद्धं जगहुर्मनस्ते ॥ १२ ॥ सुरासुरैविस्मृतदीर्घवैरैः परस्परप्रीतिविषक्तनेत्रैः । त्वद्यानधूः सद्यवहैर्बभासे संदिग्धसूर्यप्रभमन्तरिक्षम् ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org