________________
122
द्वात्रिंशिका, ३-४
न मोहमतिवृत्य बन्ध उदितस्त्वया कर्मणां न चैकमपि बन्धनं प्रकृतिबन्धभावो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत् त्वयातिकुटिला गतिः कुशल कर्मणां दर्शिता ॥ २९ ॥ इहैव परिपाकमेति विहितं परे वा भवे भवो ऽपि न भवे ऽस्ति नैव न भवत्यसौ प्रागपि । क्वचिच्च कृतमन्यथा फलति सर्वथैवान्यथा अवन्ध्यमिह चोदितं सुकृतमष्टसंख्यं त्वया ॥ ३० ॥ कृपाकृश इवोक्तवान् यदसि वीर घोरं तप' भवातिपरिविक्लवस्तदिति शान्तये सेव्यसे । असारभवबुद्धयस्तु भवरोगशान्तौ परे निदानमिव दृष्टिदोषमवधीरितास्त्वत्सुतैः ॥ ३१ ॥
अविदितगुण स्तोतुं कः स्यात्प्रमेयगुणानपि त्रिभुवनगुरुः किं त्वेवाहं तव स्तवचापलः । न तु गणयितुं चान्यापातं नय स्वहितैषिणां त्वयि समुदितानन्दं चेतो मयेत्यनुवर्तितुम् ॥ ३२ ॥
॥ इति तृतीया द्वात्रिंशिका ॥ ३ ॥
[४] परिचिन्त्य जगत्तव श्रिया न विरोधस्तिमितेन चेतसा । परुषं प्रतिभाति मे वचस्त्वदृते वीर यतो ऽयमुद्यमः ॥ १॥ यदि वा कुशलोच्चलं मनो यदि वा दुःखनिपातकातरम् । न भवन्तमतीत्य रंस्यते गुणभक्तो हि न वञ्च्यते जनः ॥२॥ कुलिशेन सहस्रलोचनः सविता चांशुसहस्रलोचनः । न विदारयितुं यदीश्वरो जगतस्तद्भवता हतं तमः ॥ ३॥ निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिर्जनः । त्वयि किं परितोषमेष्यति द्विरदः स्तम्भ इवाचिरग्रहः ॥ ४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org