________________
द्वात्रिंशिका, ४
हितयुक्तमनोरथो ऽपि संस्त्वयि न प्रीतिमुपैति यत्पुमान् । अतिभूमिविदारदारुणं तदिदं मानकलेविजृम्भितम् ॥ ५ ॥ भवमूलहरा मशक्नुवंस्तव विद्यामधिगन्तुमञ्जसा । भवते ऽयमसूयते जनो भिषजे मूर्ख इवेश्वरातुरः ॥ ६॥ न सदःसु वदन्नशिक्षितो लभते वक्तृविशेषगौरवम् । अनुपास्य गुरुं त्वया पुनर्जगदाचार्यकमेव निर्जितम् ॥ ७॥ वितथं कृपणः स्वगौरवाद्वदति स्वं च न ते ऽस्ति किंचन । वितथानि सहस्रशश्च ते जगतश्चाप्रतिमो ऽसि नायकः ॥ ८ ॥ भयमेव यदा न बुध्यते स कथं नाम भयाद्विमोक्ष्यते । अभये भयशङ्किनः परे यदयं त्वद्गुणभूतिमत्सरः ॥ ९ ॥ बलसाध्यमलं न दुर्बलः प्रतिषेद्धुं विनियोक्तुमेव वा । नियतेयमृषेर्व्यवस्थितिस्तव लोकस्य च नात्मवैरिणः ॥ १० ॥ यदि येन सुखेन रज्यते कुरुते रक्तमनाश्च यत्स्वयम् । प्रविचिन्त्य जनस्तदाचरेत्प्रतिघातेन रमेत कस्त्वयि ॥ ११ ॥ अविकल्पमनस्स्विदं वचस्तव यैरेव मनस्सु संभृतम् । समतीत विकल्पगोचराः सुखिनो नाथतयैव ते जनाः ॥ १२ ॥ परिवृद्धिमुपैति यद्यथा नियतो ऽस्यापचयस्ततो ऽन्यथा । तमसा परिचीयते भवस्त्वदनाथेषु कथं न वर्त्स्यति ॥ १३ ॥ यदि नाम जिगीषयापि ते निपतेयुर्वचनेषु वादिनः । चिरसंगतमन्यसंशयं क्षिणुयुर्मानमनर्थसंचयम् ॥ १४ ॥ उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि सर्वदृष्टयः । न च तासु भवानुदीक्ष्यते प्रविभक्तासु सेरित्स्विवोदधिः ॥ १५ ॥ वचनैविवदन्ति वादिनो भवता नोभयथापि तैर्भवान् । महता विपरीतदर्शनो वितथग्राहहतो विरुध्यते ॥ १६ ॥
स्वयमेव मनुष्यवृत्तयः कथमन्यान् गमयेयुरुन्नतिम् । अनुकूलहृतस्तु बालिशः स्खलति त्वय्यसमानचक्षुषि ॥ १७ ॥ अविकल्पसुखं सुखेष्विति ब्रुवते केवलमल्पमेधसः । त्वयि तत्तु यथार्थदर्शनात्सकलं वीर यथार्थदर्शनम् ॥ १८ ॥
Jain Education International
For Personal & Private Use Only
123
www.jainelibrary.org