________________
द्वात्रिंशिका, ३
121
न किंचिदुपलक्ष्यते गगनकाष्ठयोरन्तरं न चापि न पृथक तयोस्तदुपलक्षितं लक्षणम् । न चास्ति नियमो दिशां न च हितोचितैषा स्थितिस् त्वदीयमिव शासनं सुनयनिष्प्रकम्पाः स्थिताः ॥ २२ ॥ व्ययो ऽपि पुनरुद्भवे भवति कर्मणां कारणं चयो ऽपि च परंललाम भवनिर्जराबोधने । करोति मलमर्जयन्नपि च निष्कृति कर्मणां न वा क्व तव तीर्णसंगनिक परीक्षा क्षमा ॥ २३ ॥ न कर्म फलगौरवाजति नाप्यकर्मा क्वचिन् न चापि मरणादपेत्य न च सर्वथैवामतः । न चेन्द्रियगणं विहाय न तनुं न चैवान्यथा मतं तव निरञ्जनं विशति भव्यधीरञ्जनम् ॥ २४ ॥ चराचरविशेषितं जगदनेकदुःखान्तिकम् अनादिभवहेतुगूढदृढशृङ्खलाबन्धनम् । उदाहृतमिदं जिनेन्द्र सविपर्ययं यत्त्वया ह्यनेन भवशासनं तव सृता बुधाः शासनम् ॥ २५ ॥ क्रिया भवति कस्यचिन्न च विनिष्पतत्याश्रयात् स्वयं च गतिमान व्रजत्यथ च हेतुमाकाङ्क्षते । गुणो ऽपि गुणवच्छितो न च तदन्तरं विद्यते त्वयैष भजनोजितः सुगद सिंहनादः कृतः ॥ २६ ॥ न जातु नरकं नरो व्रजति सागसो ऽप्यन्तशो न चापि नरकादपायमनवेत्य संवेद्यते । कदाचिदिह वैरमाप्य नरकोपगं मुच्यते न चापि तव वीर वाक्यमतिपेशलं दोषलम् ॥ २७ ॥ शयानमतिजागरूकमतिशायिनं जागरं ससंज्ञमपि वीतसंज्ञमथ मोमुहं संज्ञिनम् । विकत्थनमभाषिणं वचनमूकमाभाषिणं दुरुक्तमिव मन्यते न तव यो मतं मन्यते ॥ २८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org