SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 120 न कश्चन करोति नापि परिभुज्यते केनचिन् न वेद्यमपि किंचिदस्ति न च न क्रियाभूतयः । भवश च भवान्तरं व्रजति कश्चिदभ्येति वा गति न च विना भवो ऽस्त्यभव निश्चितं ते वचः ॥ १५ ॥ वियोजयति चातुभिर्न च वधेन संयुज्यते शिवं च न परोपमदपुर षस्मृतेविद्यते । वधाय नयमभ्युपैति च परान्न निघ्नन्नपि त्वयायमतिदुर्गमः प्रथमहेतु द्योतितः ॥ १६ ॥ egory भोरवो वचन सत्य सत्यादराः पतन्त्यशिवमेव सत्यवचनार्थमूढा जनाः । परप्रियहितैषिणश्च बहुयातनाः पाणयः समन्तशिवसौष्ठवं तव न ये वचः संनताः ॥ १७ ॥ य एव रतिहेतवः समफलास्त एवार्थतो न च प्रशमहेतुरेव मतिविभ्रमोत्पादकः । य एव च समुद्भवः सविलयः प्रतिस्वं च तौ तवामृतमिदं वचः प्रतिहतैर्गदः पीयते ॥ १८ ॥ ममाहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशः सुखपिपासितैरयमसावनर्थोत्तरैः परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १९ ॥ न दुःखसुखकल्पनामलिनमानसः सिध्यति न चागमसदादरो न च पदार्थभक्तीश्वरः । न शून्यघटितस्मृतिर्न शयनोदरस्थो न वा यथात्थ न ततः परं हितपरीक्षकैर्मन्यते ॥ २० ॥ त्वमेव परमास्तिकः परमशून्यवादी भवान् त्वमुज्ज्वलविनिर्णयो ऽप्यवचनीयवादः पुनः । परस्परविरुद्धतत्त्वसमयश्च सुश्लिष्टवाक् त्वमेव भगवन्नकम्प्यसुनयो यथा कस्तथा ॥ २१ ॥ Jain Education International द्वात्रिंशिका, ३ For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy