________________
द्वात्रिंशिका, २
117
भीरोः सतस्तव कथं त्वमरेश्वरो ऽसौ वीरो ऽयमित्यनवधाय चकार नाम । मृत्योर्न हस्तपथमेत्य बिभेति वीरस् त्वं तस्य गोचरमपि व्यतियाय लीनः ॥ २६ ॥ नादित्यगर्वजमहस्तव किंचिदस्ति नापि क्षपा शशिमयूखशुचिप्रहासा । रात्रिदिनान्यथ च पश्यसि तुल्यकालं कालत्रयोत्पथगतो ऽन्यनतीतकालः ॥ २७ ॥ चन्द्रांशवः कमलगर्भविषक्तमुग्धाः सूर्यो ऽप्यजातकिरणः कुमुदोदरेषु । वीर त्वमेव तु जगत्यसपत्नवीरस् त्रैलोक्यभूतचरिताप्रतिघप्रकाशः ॥ २८ ॥ यश्चाम्बुदोदरनिरङकुशदीप्तिरर्कस् तारापतिश्च कुमदद्युतिगौरपादः । ताभ्यां तमो गुपिलमन्यदिव प्रकाश्यं कस्तं प्रकाशविभवं तव मातुमर्हः ॥ २९ ॥ नार्थान् विवित्ससि न वेत्स्यसि नाप्यवेत्सीर् न ज्ञातवानसि न ते ऽच्युत वेद्यमस्ति । त्रैलोक्यनित्यविषमं युगपच्च विश्वं पश्यस्यचिन्त्यचरिताय नमो ऽस्तु तुभ्यम ॥ ३० ॥ शब्दादयः क्षणसमुद्भवभङ्गशीलाः . संसारतीरमपि नास्त्यपरं परं वा । तुल्यं च तत्तव तयोरपरोक्षगाप्सु त्वय्यद्भुतो ऽप्ययमनद्भुत एष भावः ॥ ३१ ॥
अनन्यमतिरीश्वरो ऽपि गुणवाक समाः शाश्वतीर् यदा न गुणलोकपारमनुमातुमीशस्तव । पृथग्जनलघुस्मतिजिन किमेव वक्ष्याम्यहं मनोरथविनोदचापलमिदं तु नः सिद्धये ॥ ३२ ॥
॥ इति द्वितीया द्वात्रिंशिका ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org