________________
116
द्वात्रिंशिका, २
पापं न वाञ्छति जनो न च वेत्ति पापं पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः । निःसंशयं स्फुटहिताहितनिर्णयस्तु त्वं पापवत्सुगत पुण्यमपि व्यधाक्षीः ॥ १९ ॥ सत्कारलाभपरिपक्तिशठैर्वचोभिर् दुःखद्विषं जनमनुप्रविशन्ति तीर्थ्याः । लोकप्रपञ्चविपरीतमधीरदुर्ग श्रेयःपथं त्वमविदूरसुखं चकर्ष ॥ २० ॥ दैत्याङ्गनातिलकनिष्ठुरवज्रदीप्तौ शके सुरौघमुकुटाचितपादपीठे । तिर्यक्षु च स्वकृतकर्मफलेश्वरेषु तद्वाक्यपूतमनसां न विकल्पखेदः ॥ २१ ॥ यैरेव हेतुभिरनिश्चयवत्सलानां सत्त्वेष्वनर्थविदुषां करुणापदेशः । तैरेव ते जिन वचस्स्वपरोक्षतत्त्वा माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति ॥ २२ ॥ एकान्तनिर्गण भवन्तमपेत्य सन्तो यत्नाजितानपि गुणान् जहति क्षणेन । क्लीबादरस्त्वयि पुनर्व्यसनोल्बणानि भुङ्क्ते चिरं गुणफलानि हि तापनष्टः ॥ २३ ॥ कुर्वन्न मारमुपयाति न चाप्यकुर्वन् नास्यात्मनः शिवमहद्धर्यबलं निधानम् । वेदंस्तमेवमवसादितवेदमत्त्वाद् भूयो न दुःखगहनेषु वनेषु शेते ॥ २४ ॥ कर्ता न कर्मफलभुग्न च कर्मनाशः कर्जन्तरे ऽपि च न कर्मफलोदयो ऽस्ति । कर्ता च कर्मफलमेव स चाप्यनाद्यस् त्वद्वाक्यनीतिरियमप्रगतान्यतीयः ॥ २५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org