SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका, २ 115 त्वद्भाषितान्यविनयस्मितकुञ्चिताक्षाः स्वग्राहरक्तमनसः परिभूय बालाः । नैवोद्भवन्ति तमसः स्मरणीयसौख्याः पाताललोनशिखरा इव लोध्रवृक्षाः ॥ १२ ॥ सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव तवापि खिलान्यभूवन् । तन्नाद्भतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥ १३ ॥ त्वच्छासनाधिगममूढदिशां नराणाम् आशास्महे पुरुषमप्यनुपत्तमेव । उन्मार्गयायिषु हि शीघ्रगतिर्य एव नश्यत्यसौ लघुतरं न मृदुप्रयातः ॥ १४ ॥ तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमद्राः । पर्याप्तमेकमुपपत्तिसचेतनस्य रागाचिषः शमयितुं तव रूपमेव ॥ १५ ॥ वैराग्यकाहलमुखा विषयस्पृहान्धा ज्ञातुं स्वमप्यनधिया हृदयप्रचारम् । नातः परं भव इति व्यसनोपकण्ठा विश्वासयन्त्युपनतांस्त्वयि मूढसंज्ञाः ॥ १६ ॥ सत्त्वोपघातनिरनुग्रहराक्षसानि वक्तृप्रमाणरचितान्यहितानि पीत्वा । अद्वारकं जिन तमस्तमसो विशन्ति येषां न भान्ति तव वाग्द्युतयो मनस्सु ॥ १७ ॥ दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरुनिष्ठम् मुक्तः स्वयं कृतभवश्च परार्थशूरस् त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy