SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 118 द्वात्रिंशिका, ३ अनन्यपुरुषोत्तमस्य पुरुषोत्तमस्य क्षितावचिन्त्यगुणसात्मनः प्रभवविक्रिया वर्त्मनः । प्रसादविजितस्मृतिर्गणयितुं मतिप्रोद्गमं स्तवं किल विवक्षुरस्मि पुरुहूतगीतात्मनः ॥ १॥ व्यलोकपथनायकैर्हतपरिश्रमच्छद्मभिर् निरागसि सुखोन्मुखे जगति यातनानिष्ठुरैः । अहो चिरमपाकृताः स्म शठवादिभिर्वादिभिस् त्वदाश्रयकृतादरास्तु वयमद्य वीर स्थिताः ॥ २॥ अनादिनिधनः क्वचित्क्वचिदनादिरुच्छेदवान् प्रतिस्वमविशेषजन्मनिधनादिवृत्तः पुनः । भवव्यसनपञ्जरो ऽयमुदितस्त्वया नो यथा तथायमभवो भवश्च जिन गम्यते नान्यथा ॥ ३ ॥ जगत्यनुनयन्ययाभ्युदयविक्रियावन्ति च स्वतन्त्रगुणदोषसाम्यविषमाणि भोज्यान्यपि । क्रियाफलविचित्रता च नियता यथा भोगिनां तथा त्वमिदमुक्तवानिह यथा परे शेरते ॥४॥ अतीत्य नियतव्यथौ स्थितिविनाशमिथ्यापथौ निसर्गशिवमात्थ मार्गमुदयाय यं मध्यमम् । स एव दुरनुष्ठितो ऽयमभिधानरूक्षाशयान्मधाविव महोरगो दशति दुर्गृहीतोद्धतः ॥ ५ ॥ जगद्धितमनोरथाः स्वयमनावृतप्रीतयः कृतार्थनिवृतादराश्च विवृतोग्रदुःखे जने । गुणज्ञपरिमृग्यमाणलघवः स्वनीतः परे त्वमेव तु यथार्थवादशुचिरर्थविद्भिर्वृतः ॥ ६॥ प्रवृत्त्यपनयक्षतं जगदशान्तजन्मव्यथं विरामलघुलक्षणस्त्वमकरोस्तदन्तःक्षणम । जनानुमुखचाटवस्तरुणसत्कृतप्रातिभाः प्रवृत्तिपरमार्थमेव परमार्थमाहुः परे ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy