________________
112
द्वात्रिंशिका, १
वपुः स्वभावस्थमरक्तशोणितं परानुकम्पासफलं च भाषितम् । न यस्य सर्वज्ञ विनिश्चयस्त्वयि द्वयं करोत्येतदसौ न मानुषः ॥ १४ ॥ अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः प्रथयन्ति यद्यशः । न तावदप्येकसमूहसंहताः प्रकाशयेयुः परवादिपार्थिवाः ॥ १५ ॥ यदा न संसारविकारसंस्थितिविगाह्यते त्वत्प्रतिघातनोन्मुखैः । शटैस्तदा सज्जनवल्लभोत्सवो न किंचिदस्तीत्यभयैः प्रबोधितः ॥ १६ ॥ स्वपक्ष एव प्रतिबद्धमत्सरा यथान्यशिष्याः स्वरुचिप्रलापिनः । निरुक्तसूत्रस्य यथार्थवादिनो न तत्तथा यत्तव को ऽत्र विस्मयः ॥ १७ ॥ नयप्रसंगापरिमेयविस्तरैरनेकभङ्गाभिगमार्थपेशलैः । अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र साक्षादिव पासि भाषितैः ॥ १८॥ विलक्षणानामविलक्षणा सती त्वदीयमाहात्म्यविशेषसंभली । मनांसि वाचामपि मोहपिच्छलान्युपेत्य ते ऽत्यद्भत भाति भारती ॥ १९ ॥ असत्सदेवेति परस्परद्विषः प्रवादिनः कारणकार्यतर्किणः । तुदन्ति यान् वाग्विषकण्टकान्न तैर्भवाननेकान्तशिवोक्तिरर्यत ॥ २० ॥ निसर्गनित्यक्षणिकार्थवादिनस्तथा महत्सूक्ष्मशरीरदर्शिनः । यथा न सम्यङ्मतयस्तथा मुने भवाननेकान्तविनीतमुक्तवान् ॥२१॥ मुखं जगद्धर्मविविक्ततां परे वदन्ति तेष्वेव च यान्ति गौरवम् । त्वया तु येनैव मुखेन भाषितं तथैव ते वीर गतं सुतैरपि ॥ २२ ॥ तपोभिरेकान्तशरीरपीडनैत्रतानुबन्धः श्रुतसंपदापि वा । त्वदीयवाक्यप्रतिबोधपेलवैरवाप्यते नैव शिवं चिरादपि ॥ २३ ॥ न रागनिर्भर्त्सनयन्त्रमीदृशं त्वदन्यदृग्भिश्चलितं विगाहितम् । यथेयमन्तःकरणोपयुक्तता बहिश्च चित्रं कलिलासनं तपः ॥ २४ ॥ विरागहेतुप्रभवं न चेत्सुखं न नाम तत्किचिदिति स्थिता वयम् । स चेन्निमित्तं स्फुटमेव नास्ति न त्वदन्यतः स त्वयि येन केवलः ॥ २५ ॥ न कर्मकर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपाश्नुते । तदष्टधा पुदगलमूर्तिकर्मजं यथात्थ नैवं भुवि कश्चनापरः ॥ २६ ॥ न मानसं कर्म न देहवाङ्मयं शुभाशुभज्येष्ठफलं विभागशः । यदात्थ तेनैव समीक्ष्यकारिणः शरण्य सन्तस्त्वयि नाथ बुद्धयः ॥ २७ ॥ यदा न कोपादिवियुक्तलक्षणं न चापि कोपादिसमस्तलक्षणम् । त्वमात्थ सत्त्वं परिणामलक्षणं तदेव ते वीर विबुद्धलक्षणम् ॥ २८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org