________________
113
द्वात्रिंशिका, १-२
क्रियां च संज्ञान वियोगनिष्फलां क्रियाविहीनां च विबोधसंपदम् । निरस्यता क्लेशसमूहशान्तये त्वया शिवायालिखितेव पद्धतिः ॥ २९ ॥ सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः । तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिन वाक्यविषः ॥ ३० ॥ शताध्वराद्या लवसप्तमोत्तमाः सुरर्षभा दृष्टपरापरास्त्वया ।। त्वदीययोगागममुग्धशक्तयस्त्यजन्ति मानं सुरलोकजन्मजम् ॥ ३१ ॥
जगन्नैकावस्थं युगपदखिलानन्तविषयं यदेतत्प्रत्यक्षं तव न च भवान् कस्यचिदपि । अनेनैवाचिन्त्यप्रकृतिरससिद्धस्तु विदुषां समीक्ष्यैतद्वारं तव गुणकथोत्का वयमपि ॥ ३२ ॥
॥ इति प्रथमा द्वात्रिंशिका ॥१॥
व्यक्तं निरञ्जनमसंस्कृतमेकविद्यु विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसांस्यं यस्त्वां न वेद न स वीर हितानि वेद ॥१॥ दुःखादितेषु न च नाम घृणामुखो ऽसि न प्रार्थितार्थसखिषूपनतप्रसादः । न श्रेयसा च न युनक्षि हितानुरक्तान् नाथ प्रवृत्त्यतिशयस्त्वदनिर्गतो ऽयम् ॥ २ ॥ कृत्वा नवं सुरवधूभयरोमहर्ष दत्याधिपः शतमुखभ्रकुटोवितानः । त्वत्पादशान्तिगृहसंश्रयलब्धचेता लज्जातनुद्युति हरेः कुलिशं चकार ॥ ३ ॥ पीतामृतेष्वपि महेन्द्रपुरःसरेषु मृत्युः स्वतन्त्रसुखदुर्ललितः सुरेषु । वाक्यामृतं तव पुनविधिनोपयुज्य शूराभिमानमवशस्य पिबन्ति मृत्योः ॥ ४ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org