________________
स्वयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥१॥ समन्तसर्वाक्षगणं निरक्षं स्वयंप्रभं सर्वगतावभासम । अतीतसंख्यानमनन्तकल्पमचिन्त्यमाहात्म्यमलोकलोकम् ॥२॥ कुहेतुतर्कोपरतप्रपञ्चसद्भावशुद्धाप्रतिवादवादम् । प्रणम्य सच्छासनवर्धमानं स्तोष्ये यतीन्द्रं जिनवर्धमानम् ॥ ३॥ न काव्यशक्तेर्न परस्परेjया न वीरकीर्तिप्रतिबोधनेच्छया । न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्यो ऽसि यतो ऽयमादरः ॥४॥ परस्पराक्षेपविलुप्तचेतसः स्ववादपूर्वापरमूढनिश्चयान् ।। समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः कथं पुमान् स्याच्छिथिलादरस्त्वयि ॥५ वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः । त एव विज्ञानपथागताः सतां त्वदीयसूक्तिप्रतिपत्तिहेतवः ॥ ६ ॥ कृपां वहन्तः कृपणेषु जन्तुषु स्वमांसदानेष्वपि मुक्तचेतसः । त्वदीयमप्राप्य कृतार्थकौशलं स्वतः कृपां संजनयन्त्यमेधसः ॥७॥ जनो ऽयमन्यः करुणात्मकैरपि स्वनिष्ठितक्लेशविनाशकाहलैः । विकुत्सर्यस्त्वद्वचनामृतौषधं न शान्तिमाप्नोति भवातिविक्लवः ॥ ८॥ प्रपञ्चितक्षुल्लकतर्कशासनः परप्रणेयाल्पमतिर्भवासनः । त्वदीयसन्मार्गविलोमचेष्टितः कथं नु न स्यात्सुचिरं जनो जिनः ॥९॥ परस्परं क्षुद्रजनः प्रतीपगानिहव दण्डेन युनक्ति वा न वा । निरागसस्त्वत्प्रतिकूलवादिनो दहन्त्यमुत्रह च जाल्मवादिनः ॥१०॥ अविद्यया चेद्युगपद्विलक्षणं क्षणादि कृत्स्नं न विलोक्यते जगत् । ध्रुवं भवद्वाक्यविलोमदुर्नयांश्चिरानुगांस्तानुपगूह्य शेरते ॥ ११ ॥ समृद्धपत्रा अपि सच्छिखण्डिनो यथा न गच्छन्ति गतं गरुत्मतः । सुनिश्चितज्ञेयविनिश्चयास्तथा न ते मतं यातुमलं प्रवादिनः ॥ १२ ॥ य एष षड्जीवनिकायविस्तरः परैरनालोढपथस्त्वयोदितः । अनेन सर्वज्ञपरीक्षणक्षमास्त्वयि प्रसादोदयसोत्सवाः स्थिताः ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org