________________
न्यायावतारः, ३१
चेतना भवान्तरागतचेतना जीवसंबन्धिनीति प्रतिपद्यामहे । किं च, जीवस्तावत् कर्मचैतन्यसंबन्धाच्छरीरनिर्वर्तनार्थं प्रवर्तत इति युक्तमेवैतत् भूतानि पुनः किंभूतानि चेतनाकरणे प्रवर्तेरन् सचेतनानि निश्चेतनानि वा । यद्याद्यः कल्पः, ततो विकल्पयुगलमवतरति — तच्चैतन्यं तेभ्यो भिन्नमभिन्नं वा । यदि भिन्नं तदा पुरुषशरीरवत् तत्रापि भूतैः सह वर्तमानमपि भूतविलक्षणमात्मकारणमनुमापयतीति तदवस्थैव जीवसिद्धिः । अथाभिन्नम्, तथा सति समस्तभूतानामैक्यं प्रसजति, एकचैतन्याव्यतिरिक्तत्वात्, तत्स्वरूपवत् । निजनिजचैतन्याव्यतिरेकीणि भूतानि तेनायमदोष इति चेन्न, तत्संपाद्यपुरुषशरीरेऽपि तज्जन्यपञ्चचैतन्यप्रसङ्गात् । पञ्चापि संभूय बृहत्पुरुषचैतन्यं बहवस्तिला इव तैलघट 10 जनयन्तीति चेत्, तर्त्ताह पुरुषचैतन्यं किं तेषामेव संयोगो यद्वा तदुत्पाद्यमन्यदेव । यद्याद्यः कल्पः, तदयुक्तम्, चैतन्यानां परस्परं मिश्रणाभावेन संयोगविरोधात्, इतरथा बहुपुरुषचैतन्यानि संभूय बृहत्तमचैतन्यान्तरमारभेरन् । अथ द्वितीयः पक्षः, तत्रापि तेषां किमन्वयोऽस्ति नास्ति वा । यद्यस्ति, तदयुक्तम्, प्राग्वत्तज्जन्यचैतन्यपञ्चरूपतापत्तेः । अथ नास्ति, तदप्यचारु, निरन्वयोत्पादस्य प्रमाणबाधितत्वात्, तन्न सचेतनानि भूतानि चेतनाकरणे व्यापारभाजि भवितुमर्हन्ति । नापि निश्चेतनानि तेषामत्यन्तविलक्षणतया चैतन्योत्पादविरोधात् इतरथा सिकतादयस्तैलादिकरणे व्याप्रियेरन् । किं च तत्समुदायमात्रसाध्यं वा चैतन्यं स्यात् विशिष्टतत्परिणामसाध्यं वा । न तावदाद्या क्लृप्तिः, इलाजलानलानिलनभस्तल मीलनेऽपि चेतनानुपलब्धेः । 20 द्वितीयविक्लृप्तौ पुनः किं वैशिष्ट्यमिति वाच्यम् । कायाकारपरिणाम इति चेत्, स तहि सर्वदा कस्मान्न भवति । कुतश्चिद्धेत्वन्तरापेक्षणादिति चेत्, तर्त्ताह हेत्वन्तरं भवान्तरायातजीवचैतन्यमित्यनुमिमीमहे, तस्यैव कायाकारपरिणाम साध्यचैतन्यानुरूपोपादानकारणत्वात्, तद्विरहे कायाकारपरिणामसद्भावेऽपि मृतावस्थायां तदभावात् गमनादिचेष्टानुपलब्धेः, तन्न कायाकार25 परिणामजन्यचैतन्यम्, अपि तु स एव तज्जन्य इति युक्तं पश्यामः । न प्रत्यक्षादन्यत् प्रमाणमस्ति, न च तेन परलोकगमनागमनादिकं चैतन्यस्योपलक्ष्यते, तेन दृष्टान्येव भूतानि तत्कारणतया कल्पनीयानीति चेत्, न, केवलप्रत्यक्षप्रतिक्षेपेण प्रमाणान्तराणां प्रागेव प्रसाधितत्वात्, तथा च भूयां. स्यनुमानानि परलोकानुयायिजीवसाधकानि प्रवर्तेरन् । तद्यथा - तदहर्जातबालकस्य आद्यस्तनाभिलाषः पूर्वाभिलाषपूर्वकः, अभिलाषत्वात्, द्वितीयदिव -
"
106
5
15
30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org