SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः, ३१ 105 णामानुपपत्तेः । व्यतिरिक्तज्ञानसमवायादेकान्तनित्योऽपि प्रमिणोतीति चेत्, न, समवायस्य प्रागेव प्रतिक्षिप्तत्वात्, संबन्धान्तरस्य च व्यतिरेकिणा साकमनुपपत्तेः, अन्यत्र अन्यथानुपपन्नत्वात् । न च व्यतिरेकिणि ज्ञाने समस्ति, तद्ग्राहकप्रमाणाभावात्, अव्यतिरेकानुभवस्य च तद्वाधकत्वात् । किं च यदि समवायबलादात्मनि ज्ञानं समवैति, तदा आत्मनां समवायस्य च विभुत्वा- 5 देकरूपत्वाच्च सर्वात्मसु किं न समवैति । विशेषाभावात, तथा च देवदत्तज्ञानेन यज्ञदत्तादयोऽप्यर्थतत्त्वं बुद्धचरन् । अन्यच्च विज्ञानोदयसमयेऽपि यादृशः प्रागवस्थायां तादृश एव संतिष्ठमानः प्रागप्रमाता पश्चात् प्रमातेति ब्रुवाणः खलून्मत्ततामात्मनि आविर्भावयति, नापरमित्यास्तां तावत् । पश्चार्धन पुनर्भूतव्यतिरेकिणं स्वसंवेदनप्रत्यक्षनिर्णाझं जीवं दर्शयच्चार्वाक- 10 दर्शनं तिरस्कुरुते, जडात्मकभूताव्यतिरेके हि तद्धितलक्षणबोधरूपहर्षविषादादिविवर्तानुभवाभावप्रसङ्गात् । ननु च कायाकारपरिणतानि भूतान्येवात्मव्यतिरेकिणी चेतनामुत्कालयन्ति, सा च तथाविधपरिणामपरिणतेषु तेषु संतिष्ठते तदभावे पुनस्तेष्वेव निलीयते इति तद्वयतिरेकानुभवेऽपि न परलोकयायिजीवसिद्धिः, इयतैव दृष्टव्यवहारोपपत्तेः । नैतदस्ति, द्वयं हि तावदेतत् 15 संयोगमनुभवदुपलभ्यते-पञ्चभूतात्मकं शरीरं चेतना च । तत्रापि शरीरं बहिर्मखाकारेण बोधनार्थरूपतया जडमनुभूयते, चेतना पुनरन्तर्मुखाकारण स्वसंवेदनप्रत्यक्षेण साक्षात्क्रियते, अत एवाव्यतिरेकः पक्षः प्रतिभासनिराकृतत्वान्नाशङ्कितः, व्यतिरेकिणोः पुनः प्रकाशमानयोः यदि भूतान्येव चेतनामुस्कालयन्तीति भवद्भिः परिकल्प्यते, तदा चेतनैव भवान्तरादुत्पत्तिस्थानमायाता 20 पञ्चभूतभ्रान्तिजनकं शरीरं निवर्तयेत्, पुनर्भवान्तरं यातुकामा मुञ्चेत्, तत्तयाधिष्ठितं गमनादिचेष्टां कुर्यात्, तद्वियुक्तं पुनः काष्ठवत्तिष्ठेदिति जीवसंपाद्यमेव शरीरम्, न पुनरसौ तत्संपाद्य इति । एतत्परिकल्पनं युक्ततरं पश्यामः, जीवस्य चेतनावतः सकर्मकतयापरापरभवभ्रमणपरापरशरीरनिवर्तनयोरुपपद्यमानत्वात् । भवान्तरादागच्छन्नुत्पत्तिस्थानं जीवोऽध्यक्षेण नोप- 25 लभ्यते इति चेत्, भूतान्यपि तहि कायाकारधारणद्वारेण चेतनामुत्कालयन्तीति प्रत्यक्षेण नोपलक्ष्यन्ते इति समानो न्यायः । अथ कायाकारपरिणतेष्वेव भूतेष चेतनोपलभ्यते नान्यदा इत्यन्यथानुपपत्तिवशात् तज्जन्येति परिकल्प्यते, एवं तहि मृतावस्थायां कायाकारमाबिभ्राणेष्वपि नोपलब्धा, कायाकारपरिणामो वा कादाचित्कतया हेत्वन्तरापेक्षी इत्यन्यथानुपपत्तिवशादेव तन्निर्वर्तनक्षमा 30 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy