________________
104
न्यायावतारः, ३१ जीवत्वचैतन्यद्रव्यत्वादिभिः स्थेमानमाबिभ्राण एव हर्षविषादादिभिरपरापरार्थग्रहणपरिणामैश्चोत्पादव्ययधर्मकः पारमार्थिकः प्रमातेति बलात् सिद्धिमध्यास्ते । ननु च यद्युत्पादव्ययस्थितीनां निर्हेतुकत्वात् सकलकालभाविता भवद्भिः साध्यते, तदान्वयव्यतिरेकाभ्यां प्रत्यक्षादिप्रमाणप्रसिद्धः खल्वयं तत्कारणकलापव्यापारः कथं नेयः । न चायमपह्नोतुं शक्यः । तथा हिकुलालादिकारणवातव्यापारे घटादयः समुपलभ्यन्ते, तदभावे च नोपलभ्यन्ते इति तज्जन्या इत्यच्यन्ते, स्थितिरपि विनाशकारणसंनिधानात् प्राक तबलादेव, तथा नाशोऽपि मुद्गरादिसंनिधानासंनिधानाभ्यां सदसत्तामनभव
तस्तत्कृतः प्रतीयते, नाहेतुकः, तत्कथमेतदिति । अत्रोच्यते-न वयं सर्वथा 10 हेतूनां व्यापार वारयामः, किं तहि स्वयमुत्पादव्ययस्थित्यात्मना विवर्तमानस्य
द्रव्यस्य हेतवस्तद्विशेषकरणे व्यापारमनुभवन्ति, तेनैव सार्धं तेषामन्वयव्यतिरेकानुकरणदर्शनात्, दृष्टस्य चापह्नवेऽस्माकमप्रवृत्तत्वात्, प्रतीतियुक्तिलक्षणद्वयपक्षपातित्वात्, केवलं प्रतीतिविकलां युक्ति युक्तिविनाकृतां वा प्रतीति नाङ्गीकुर्महे, असंभवदर्थगोचरतया निरालम्बनत्वात्तस्या इत्यास्तां तावत् । 'स्वान्यनिर्भासि' इत्यनेन प्रागुक्तस्वपराभासि प्रमाणविशेषणवन्मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च ज्ञानमात्रवादिनः प्रतिक्षिपति । कथम् । ज्ञानज्ञानिनोः कथंचिदभेदेन तदुक्तन्यायाविशेषादिति । 'कर्ता भोक्ता' इति विशेषणद्वयेन सांख्यमतं विकुट्टयति, कर्ता सन् भोक्तापि इति काक्वोपन्यासात्,
अकर्तुभॊगानुपपत्तेः, भुजिक्रियानिवर्तनसमर्थस्यैव भोक्तृत्वात् जपाकुसुमादि20 संनिधानवशात् स्फटिके रक्तत्वादिव्यपदेशवदकर्तुरपि प्रकृत्युपधानवशात्
सुखदुःखादिभोगव्यपदेशो युक्तः । तथा हि—'प्रकृतिविकारदर्पणाकारबुद्धिसंक्रान्तानां सुखदुःखात्मकानामर्थानां पुरुषः संनिधानमात्रेण भोजको व्यपदिश्यते, बुद्धचध्यवसितमर्थं पुरुषश्चेतयते' - इति वचनादिति चेत्, न, कथंचित् सक्रियाकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपपत्तेः, अप्रच्युतप्राचीनरूपस्य व्यपदेशानहत्वात्, तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वमापततीति न्यायात् । स्फटिकदृष्टान्तेऽपि जपाकुसुमादिसंनिधानादन्धोपलादौ रक्ततानाविर्भवन्ती तस्य तथाविधं परिणाम लक्षयति, अन्यथान्धोपलवत्तत्रापि न प्रादुःष्यात्, तन्नाक्रियस्य भोक्ततोपपद्यते
इति । 'विवृत्तिमान्' इत्यमुना त्वेकान्तनित्यमपरिणामिनं नैयायिकवैशेषि30 कादिप्रकल्पितं प्रमातारं निरस्यति, सर्वथा अविचलितरूपस्यार्थग्रहणपरि
15
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org