________________
न्यायावतारः, ३१
मेवाढौकते, अतादवस्थ्यस्य तल्लक्षणत्वात् । किं च । विनाशहेतुर्भावस्य विनाशं व्यतिरिक्तमव्यतिरिक्तं वा कुर्यात्, व्यतिरिक्तकरणे न किंचित् कृतं स्यात्, ततश्च भावस्तादवस्थ्यमनुभवेत् । तत्संबन्धः क्रियते इति चेत्, संबन्धस्य तादात्म्यतदुत्पत्तिव्यतिरिक्तस्य प्रतिषेधात् । न चानयोरन्यतरः संबन्धोऽत्र समस्ति, व्यतिरेकिणा सार्धं तादात्म्यायोगात्, अन्यहेतुकस्य पश्चादुत्पन्नस्य तदुत्पत्तिवैकल्यात् । तन्न व्यतिरिक्तो विनाशः कर्तुं युक्तः । अव्यतिरिक्तकरणे पुनस्तमेव भावं विनाशहेतुः करोतीति प्राप्तम्, अव्यतिरेकस्य तद्रूपतालक्षणत्वात् । न चासौ कर्तव्यः, स्वहेतोरेव निष्पन्नत्वात्, तत्करणे च तस्यावस्थानमेव स्यान प्रलयः । तन्न अविनश्वरस्वभावानां पश्चात् कथं - चिदपि विनाशः कर्तुं शक्यः, विनश्वरस्वभावानां पुनः स्वहेतुबलायातत्वात् प्रागपि प्रतिक्षणभावी न कारणान्तरापेक्षः, स्वभावस्य नियतरूपत्वात्, तस्मात् प्राणिति अद्यापि प्रतिक्षणविलय इति । अत्रोच्यते - सत्यमेतत् किं तु यथा विनाशकारणायोगात् प्रतिक्षणभावीति नाशो भवद्भिः प्रतिपद्यते, तथैव स्थित्युत्पत्ती प्रतिक्षणभाविन्यौ किं न प्रतिपद्यते, तद्धेतूनामपि विचार्यमाणानामयोगात् । तथा हि-स्थितिहेतुना तावत्स्वयमस्थिरस्वभावा भावा: 15 स्थाप्येरन् स्थिरस्वभावा वा । न तावत्प्रथमः पक्षः क्षोदं क्षमते, स्वभावस्या - न्यथा कर्तुमशक्यत्वात्, तस्य प्रतिनियतरूपत्वात्, चेतनाचेतनस्वभाववत्, अन्यथा स्वभावताहानेः । द्वितीयपक्षे पुनः स्वयं स्थिरस्वभावानां कि स्थितिहेतुना । परः स्थितिर्नेष्यते एव तेनानभ्युपगतोपालम्भ एवायमिति चेत्, हन्त हतोऽसि एवं हि भावाः क्षणमात्रमपि न तिष्ठेयुः । क्षणभाविनीष्यते एवेति चेत्, सा तहि अस्थितिस्वभावानां हेतुशतैरपि कर्तुं न पार्यते इति ब्रूमः । तत्स्वभावत्वे पुनर्हेतुव्यापारनैरर्थक्यात् । अहेतुका सती सकलकालं भवतीति दत्तो जलाञ्जलिः प्रतिक्षणविलयस्य तथोत्पादहेतुरपि तत्स्वभावस्योत्पत्तिं विदध्यात् अतत्स्वभावस्य वा । न तावदाद्यः पक्षः कक्षीकर्तुं युक्तः, स्वयमुत्पादकस्योत्पादने व्याप्रियमाणो हि हेतुः पिष्टं पिनष्टि, शङ्खं धवलयतीति, तदभावेऽपि स्वयोग्यतयोत्पत्तेः । नापि द्वितीयः कल्पोऽङ्गीकरणार्हः, स्वयमनुत्पत्तिधर्मकस्योत्पादयितुमशक्यत्वात्, अन्यथा शशविषाणादयोऽप्युत्पाकोटिमध्यासीरन्, विशेषाभावात्, ततश्च न कश्चिदत्यन्ताभावः स्यात् । तद्यथा - निर्हेतुकत्वात् नाशः प्रतिक्षणभावी, तथैव दर्शितयुक्तेः स्थित्युत्पत्ती अपीति त्रयाकान्तं सकलवस्तुजातमभ्युपगन्तव्यम्, तथा सति जीवोऽपि
Jain Education International
103
For Personal & Private Use Only
5
10
20
25
30
www.jainelibrary.org