________________
102
न्यायावतारः, ३१
यावत् । तथा करोतीति कर्ता, भुङ्क्ते इति भोक्ता । विवर्तनमपरापरपर्यायेषु गमनं विवृत्तिः परिणामः, सा विद्यते यस्येति विवृत्तिमान् । स्व आत्मा संवेद्यतेऽनेनेति स्वसंवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदन
संसिद्धः । क्षितिः पृथिव्यादिर्येषां तानि क्षित्यादीनि, आदिशब्दादम्बुतेजो5 वाय्वाकाशानि गृह्यन्ते । न विद्यते आत्मा स्वरूपमस्येत्यनात्मकः, किं स्वस्व
रूपापेक्षया । न, क्षित्यादीनामनात्मकः क्षित्याद्यनात्मकः क्षित्यादिस्वरूपो न भवतीत्यर्थः । तत्र 'जीवः प्रमाता' इत्यनेन ये पारमार्थिकं प्रमातारं नाभ्युपगच्छन्ति अपि तु विज्ञानक्षणपरंपरानुभवबलप्रबोधितानादिप्ररूढवासना
संपादितसत्ताकं मिथ्याविकल्पपरिकल्पितमपारमार्थिकं तं मन्यन्ते प्रतिक्षण10 विलयवादिनः तान्निराचष्टे, क्षणविलयस्य प्रागेव प्रतिषिद्धत्वात्, बहिरन्तश्च
परिणामिवस्तुनः प्रसाधनात् । ननु च घटादयस्तावद्विनाशमाविशन्तो दृश्यन्ते, तेषां च विनाशो लकुटादिकारणकलापेन अविनश्वरस्वभावानां वा क्रियेत विनश्वरस्वभावानां वा । यद्याद्यः कल्पः, तदयुक्तम्, स्वभावस्य प्रच्यावयितुमशक्यत्वात्, तस्य नियतरूपत्वात्, अन्यथा स्वभावत्वायोगात् । अथैवंभूत एव तस्य स्वभावः स्वकारणबलायातो यदुत विनाशकारणमासाद्य विनङ्क्ष्यति इति ब्रषे, तथापि तद्विनाशकारणसंनिधानं कि यादृच्छिकम, उत तत्स्वभावसंपाद्यमेव । यदाद्यः कल्पः, तदा संनिहितस्यापि तत्प्रत्यनीकप्रत्ययोपनिपातेन निवर्तनात् तत्संनिधापकहेतूनामपि स्वसंनिधापककारणकलाप
सापेक्षत्वात् संनिहितानामपि प्रतिद्वन्द्विना निवर्तनात्, यादृच्छिकत्वाच्च 20 नावश्यंभावि तत्संनिधानम्, ततश्चासंनिहितस्वविनाशकारणकदम्बकः कश्चि
द्घटादिर्न विनश्यदपि, अनिष्टं चैतत्, सर्वकृतकानां विनाशाविगानात् । अथ द्वितीयः पक्षः, तथा सति पश्चादपि तद्वलाद्विनाशहेतवः संनिधास्यन्ति इति प्रथमक्षणे एव संनिदधतु, तथापि क्षणिकतैवार्थस्य । स्वहेतोरेव नियत
कालात् परतोऽयं स्वविनाशहेतुं संनिधापयिष्यतीति एवंरूपो जात इति चेत्, 25 न, एवमपि क्षणभङ्गुरतायाता । तथा हि-स्वहेतुना किलासौ वर्षात्परतः
स्वविनाशहेतुसंनिधापनक्षमस्वभावो व्यधायि, स च तस्योत्पादक्षणात् द्वितीयक्षणे स्वभावोऽस्ति न वा । अस्ति चेत्, तथा सति पुनर्वर्षं तेन स्थातव्यम्, एवं यावद्वर्षोपान्त्यक्षणेऽपि यदि तत्स्वभाव एवासौ तदापरमपि वर्षान्तरं
स्थितिरापद्येत, तदा चानन्तकल्पस्थायी भावः स्यात्, अप्रच्युतवर्षस्थायिस्वभा30 वत्वादिति । अथ द्वितीयक्षणे नास्ति स स्वभाव इति ब्रूषे, हन्त क्षणिकत्व
15
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org