________________
न्यायावतारः, ३०-३१
101
तदिदमुक्तं भवति–नयप्रमाणाभिज्ञः स्याद्वादी सकलविकलादेशावधिकृत्य वस्तुस्वरूपप्रतिपिपादयिषया यद्यद् ब्रूते तत्तत् सत्यम्, संभवदर्थगोचरत्वात् । दुर्नयमतावलम्बिनः पुनरेकान्तवादिनो यद्यदाचक्षते तत्तदलीकम्, असंभवदर्थविषयत्वादिति ॥ २९ ॥
सांप्रतममुमेवार्थ द्रढयन् सिद्धान्तेऽप्यकैकनयमतप्रवृत्तानि सूत्राणि न 5 संपूर्णार्थाभिधायकानीति, अपि तु तत्समुदायाभिप्रायप्रवृत्तमविकलवस्तुनिवेदकमिति दर्शयन्नाह
नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । संपूर्णार्थविनिश्वायि स्याद्वादश्रुतमुच्यते ॥३०॥
इह त्रिविधं श्रुतम्, तद्यथा-मिथ्याश्रुतम्, नयश्रुतम्, स्याद्वादश्रुतम् । 10 तत्र श्रूयते इति श्रुतमागमः, मिथ्या अलीकं श्रुतं मिथ्याश्रुतम्, तच्च दुर्नयाभिप्रायप्रवृत्तीर्थिकसंबन्धि, निर्गोचरत्वात् । तथा नयैर्हेतुभूतैः श्रुतं नयश्रुतम्, एतच्चाहदागमान्तर्गतमेव, एकनयाभिप्रायप्रतिबद्धं, यथा—पड़प्पन्ने नेरइए विणस्सइ' इत्यादि, ऋजुसूत्रनयाभिप्रायेण क्षणिकत्वस्यापि तत्र संभवात् । तथा निर्दिश्यमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादोऽ- 15 भिप्रेतधर्मवचनं स्याद्वादः, तदात्मकं श्रुतं स्याद्वादश्रुतम् । तत् किभूतमुच्यते इत्याह-संपूर्णोऽविकलः स चासावर्थश्च तद्विनिश्चायि तन्निर्णयहेतुत्वादेवमभिधीयते, परमार्थतः पुनः समस्तवस्तुस्वरूपप्रतिपादीत्यर्थः, शब्दात्मकत्वात्, निश्चयस्य बोधरूपत्वादिति । नयश्रुतं तर्हि संपूर्णार्थविनिश्चायि कस्मान्न भवति इत्याह-नयानां नैगमादीनामेकनिष्ठानामेकधर्मग्रहणपर्यवसितानां 20 श्रुतवम॑नि आगममार्गे प्रवृत्तेः प्रवर्तनात् न तदेकैकाभिप्रायप्रतिबद्धं संपूर्णार्थविनिश्चायि, तत्समुदायस्यैव संपूर्णार्थविनिश्चायकत्वादित्याकूतम् ॥ ३० ॥
तदेवं नयप्रमाणस्वरूपं प्रतिपाद्याधुना शेषनयप्रमाणव्यापकं तेषां तत्र तादात्म्येनावस्थानात् प्रमातारमभिधातुकाम आह
प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । 25 स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥३१॥
तत्र त्रिकालजीवनाज्जीवः, प्राणधारक आत्मेत्यर्थः, स प्रमिणोतीति प्रमाता प्रमेयपरिच्छेदकः । किंभूतः सन्नित्याह-स्वान्यौ आत्मपरौ निर्भासयितुं उद्दयोतयितुं शीलमस्येति स्वान्यनिर्भासी, स्वस्वरूपार्थयोः प्रकाशक इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org