________________
100
न्यायावतारः, २९
क्षेपकारिणामवालीकत्वात । परः सर्व वचनं सावधारणमिति न्यायात तेषामपि शेषधर्मतिरस्कारित्वसिद्धर्भवन्नीत्यालीकतापद्यते इति चेत्, न, अवधारणस्य तदसंभवमात्रव्यवच्छेदे व्यापारात् । अनेकपुरुषसंपूर्णे सदसि द्वारादौ स्थितस्य किमत्र देवदत्तः समस्ति नास्तीति वा दोलायमानबुद्धे । केनचिदभिधीयते-यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्तपदद्वयस्य सावधारणता गम्यते, अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गात्, तथाप्यवधारणं तदसंभवमात्रं व्यवच्छिनत्ति, न शेषपुरुषान्तराणि । नापि पररूपेण नास्तित्वम्, तदव्यवच्छेदाभिप्रायेण प्रस्तुतवाक्यप्रयोगात, प्रयोक्तुरभिप्रायादिसापेक्षतयैव
ध्वनः स्वार्थप्रतिपादनसामर्थ्यात् । न च वाच्यवाचकभावलक्षणसंबन्धानर्थ10 क्यम्, तदभावे प्रयोक्त्रभिप्रायादिमात्रेण रूपस्यैव नियोक्तुमशक्यत्वात् । न च
समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद्वचनं सत्यमित्यभिदध्महे, येनैकैकधर्मालिङ्गितवस्तुसंदर्शकानामलीकता स्यात्, किं हि संभवदर्थप्रतिपादकं सत्यमिति, संभवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापन्ना धर्माः, तस्मात् तत्प्रतिपादक
सत्यमेव । यदा तु दुर्नयमताभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तर15 निराकरणाभिप्रायेणव सावधारणं तत् प्रयुज्यते, यथा नित्यमेव वस्तु अनित्य
मेव वेत्यादि, तदा निरालम्बनत्वादलोकतां प्राप्नुवत्केन वार्येत । तत्त्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तात्मकं वस्तु दर्शयन्तो द्वधा दर्शयेयुः, तद्यथा-विकलादेशेन सकलादेशेन वा । तत्र विकलादेशो नयाधीनः, सकला
देशः प्रमाणायत्तः । तथा हि-यदा मध्यस्थभावेनार्थित्ववशात् किंचिद्धर्म 20 प्रतिपिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते
तदा तत्त्वचिन्तका अपि लौकिकवत् संमुग्धाकारतयाचक्षते यदुत जीवोऽस्ति कर्ता प्रमाता भोक्तेत्यादि, अतः संपूर्णवस्तुप्रतिपादनाभावाद् विकलादेशोऽभिधीयते, नयमतेन संभवद्धर्माणां दर्शनमात्रमित्यर्थः । यदा तु प्रमाणव्या
पारमविकलं परामश्य प्रतिपादयितुमभिप्रयन्ति, तदाङ्गीकृतगुणप्रधानभावा 25 अशेषधर्मसूचककथंचित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति
स्यादस्त्येव जीवः इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः संदर्शकत्वात् सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसंपूर्णार्थकथनमिति यावत् । तदुक्तम् -
सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र । सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org