________________
न्यायावतारः, २९
अस्मश्च हेतावनैकान्तिके स्थिते सर्वार्थानां स्ववाचकत्वसाधनद्वारेण शब्दाव्यतिरेकसाधनमपि दूरापास्तमेव । न चात्रापि प्रतिबन्धग्राहि प्रमाणम् - यो योऽर्थस्तेन तेन सवाचकेन भवितव्यम्, घटादिदृष्टान्तमात्रात्तदसिद्धेः, क्षणिकालक्ष्यद्रव्यविवर्तानां संकेतग्रहणोपायाभावेनाभिलपितुमशक्यतया अनभिलाप्यत्वसिद्धेश्च क्षणभङ्गुरताप्रतिज्ञानं पुनरमीषामपि ऋजुसूत्रवन्निरसितव्यम् । तथा प्रत्येकमतापेक्षयापि स्वाभिप्रेतं प्रतिष्ठापयन्तस्तद्विपरीतं शब्दार्थं तिरस्कुर्वाणा दुर्नयतामात्मसात्कुर्वन्ति । एतावद्धि प्रमाणप्रतिष्ठितम्, यदुत विधिमुखेन शब्दोऽर्थस्य वाचक इति, न पुनरयं नियमो यथायमस्यैव वाचको नान्यस्य, देशकालपुरुषसंकेतादिविचित्रतया सर्वशब्दानामपरापरार्थाभिधायकत्वोपपत्तेः, अर्थानामप्यनन्तधर्मत्वादेवापरापरशब्दवाच्यत्वाविरोधात्, तथैवा- 10 विगानेन व्यवहारदर्शनात्, तदनिष्टौ तल्लोषप्रसङ्गात् । तस्मात् सर्वध्वनयो योग्यतया सर्वार्थवाचकाः, देशक्षयोपशमाद्यपेक्षया तु क्वचित् कथंचित् प्रतीति जनयन्ति । ततश्च क्वचिदनपेक्षितव्युत्पत्तिनिमित्ता रूढितः प्रवर्तन्ते, क्वचित् सामान्यव्युत्पत्तिसापेक्षाः, क्वचित्तत्कालवर्तिव्युत्पत्तिनिमित्तापेक्षयेति न तत्र प्रामाणिकेन नियतार्थाग्रहो विधेयः । अतोऽमी शब्दादयो यदा इतरेतराभिमतशब्दार्थोपेक्षया स्वाभिमतशब्दार्थं दर्शयन्ति, तदा नयाः, तस्यापि तत्र भावात् । परस्परबाधया प्रवर्तमानाः पुनर्दुर्नयरूपतां भजन्ति, निरालम्बनत्वादिति । ननु च यद्येकैक धर्मसमर्थनपरायणाः शेषधर्मतिरस्कारकारिणोऽभिप्राया दुर्नयतां प्रतिपद्यन्ते, तदा वचनमप्येकधर्मकथनद्वारेण प्रवर्तमानं सावधारणत्वाच्च शेषधर्मप्रतिक्षेपकारि अलोकमापद्यते, ततश्चानन्तधर्माध्यासितवस्तुसंदर्शकमेव वचनं यथावस्थितार्थप्रतिपादकत्वात्सत्यम्, न चैवं वचनप्रवृत्तिः, घटोsयं शुक्लो मूर्त इत्याद्येकैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोगदर्शनात्, सर्वधर्माणां यौगपद्येन वक्तुमशक्यत्वात्, तदभिधायकानामप्यानन्त्यात् । न चैकैकधर्म संदर्शकत्वेऽप्यमूनि वचनान्यलीकानि वक्तुं पार्यन्ते, समस्तशब्दव्यवहारोच्छेदप्रसङ्गात्, तदलीकत्वे ततः प्रवृत्त्य सिद्धेरिति । अत्रो - च्यते, इह तावद् द्वये वस्तुप्रतिपादकाः लौकिकास्तत्त्वचिन्तकाश्च । तत्र प्रत्यक्षादिप्रसिद्धमर्थमर्थित्ववशाल्लौकिकास्तावद् मध्यस्थभावेन व्यवहारकाले व्यपदिशन्ति - यदुत नीलमुत्पलं सुगन्धि कोमलमिति, न तु तद्धमिंगतधर्मान्तरग्रहण निराकरणयोराद्रियन्ते, अनर्थित्वात् तावतैव विवक्षितव्यवहारपरिसमाप्तेः । न च तद्वचनानामलीकता, शेषधर्मान्तरप्रतिक्षेपाभावात्, तत्प्रति- 30
25
Jain Education International
99
For Personal & Private Use Only
5
15
20
www.jainelibrary.org