________________
98
न्यायावतारः, २९
वस्तुद्योतनपटिष्ठतया प्रसाधितत्वात् । नापि द्वितीयः, अप्रमाणस्याकिंचित्करत्वात् । एतेन स्थूरतादूषणमपि प्रतिक्षिप्तम्, प्रतिभासहतत्वात्, तदपह्नवे विरोधोद्भावे तस्य निर्मूलतया प्रलापमात्रत्वात् । यत्पुनवर्तमानप्रकाशरूपतया तत्संबन्धवस्तुग्राहित्वं सर्वप्रमाणानामुदग्राहि तदयुक्तम्, तेषामेकान्तेन वार्तमानिकत्वासिद्धः, कथंचिदात्माव्यतिरेकित्वात्, तस्य च कालत्रयव्यापकत्वात्, तद्रूपतया तेषामप्यवस्थानात्, ततश्चात्मनोऽर्थग्रहणपरिणामरूपत्वात् । सर्वप्रमाणानां परिणामिन्येव वस्तुनि व्यापारो न क्षणिके । न चातीतानागतक्षणवर्तिवस्तुग्रहणेप्यनाद्यनन्तजन्मपरंपराग्रहणप्रसङ्गः, आवरणविच्छेदसापेक्षत्वात्,
तस्यैव परमार्थतः संवेदनाविर्भावान्तरकारणत्वात्, ग्राह्यादेर्बहिरङ्गत्वात् । -10 सामस्त्येन पुनरावरणविलये सति समस्तवस्तुविस्तारानाद्यनन्तक्षणपरंपरा
ग्रहणप्रसङ्गो ना(तो) नाबाधाकारी, इष्टत्वात् । तदेकदेशक्षयोपशमे पुनस्तदनुसारिणी बोधप्रवृत्तिरिति कियत्कालं भाविनि स्थूरे वस्तुनि प्राकृतलोकज्ञानानि प्रवर्तन्ते न संपूर्णे । न च तान्यलोकानि, तद्ग्राह्यांशस्यापि वस्तुनि
भावात् तावतैव व्यवहारसिद्धेरिति । यच्चोक्तम्-क्षणिकतां गृह्णन्तोऽपि 15 सदृशापरापरोत्पत्तिविप्रलब्धत्वाद् मन्दा नाध्यवस्यन्ति, मिथ्याविकल्पवशात्
स्थिरताव्यवहारं च प्रवर्तयन्ति, तदयुक्तम्, भवदाकूतेन सादृश्याभावात्, तदभावे तदुत्पाद्याभिमतभ्रान्तेर्निर्बोजतयोत्पत्तेरसंभवात् । तथा स्थिरतारोपोऽपि क्वचिद् गृहीतस्थिरत्वस्यैव युक्तो नान्यथा, यथा दृष्टविषधरस्य
मन्दप्रकाशे रज्जुदर्शने विषधरारोपः, न च भवतां कदाचन स्थिरता प्रतीति20 गोचरचारितामनुभवति, तत्कथं प्रतिक्षणमुदयापवर्गसंसर्गिणि सकले वस्तुनि
प्रत्यक्षेणावलोकितेऽपि तदारोप इति तस्मात्तिरोहितक्षणविवर्तमलक्षितपरमाणुवैविक्त्यं वस्तु सांव्यवहारिकप्रमाणैर्गोचरीक्रियते । तत्तिरस्कारद्वारेण अदृष्टक्षणक्षयिपरमाणुप्रतिष्ठापकोऽभिप्राय ऋजुसूत्रो दुर्नयसंज्ञामश्नुते, तदुपे
क्षयैव तद्दर्शकस्य नयत्वात् । इति ॥ 25 तथा शब्दादयोऽपि सर्वथा शब्दाव्यतिरेकमर्थस्य समर्थयन्तो दुर्नयाः,
तत्समर्थनार्थमुपन्यस्तस्य तत्प्रतीतौ प्रतीयमानत्वलक्षणस्य हेतोरनैकान्तिकत्वात् । तथा हि-नायमेकान्तो यत्प्रतीतौ यत्प्रतीयते तत्ततोऽव्यतिरिक्तमेव, व्यतिरिक्तस्यापि पावकादेरन्यथानुपपन्नत्वलक्षणसंबन्धबलाद् धूमादिप्रतीतौ
प्रतीयमानत्वात् । एवं शब्दोऽपि व्यतिरिक्तमप्यर्थ वाचकत्वात् प्रत्याय30 यिष्यति, अव्यतिरेकस्य प्रत्यक्षादिबाधितत्वात्, शब्दाद्विवेकेनैवानुभूयमानत्वात्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org