________________
न्यायावतारः, २९
97
भासस्योपदेशगम्यतानुपपत्तेः तथैव व्यवहारः प्रवर्तेत । पाश्चात्यमिथ्याविकल्पविप्लवान प्रवर्तते इति चेत, न, अन्यत्राप्यस्योत्तरस्य विप्लवहेतुत्वात् । तथा हि-धवले जलजादौ प्रतिभातेऽपि 'नीलोऽयम्' अध्यक्षेणावलोकितः पाश्चात्यमिथ्याविकल्पविप्लवाद् धवलः प्रतिभातीति भवन्न्यायेन शठः प्रतिजानानः केन वार्येत । तन्न दृष्टापलापः कर्तुं शक्य इति स्थिरस्थूरवस्तुसिद्धिः, तस्यैव 5 दर्शनात, इतरस्य तदर्शनद्वारेण साध्यमानस्यानुमेयत्वात, तदनिष्टौ तस्याप्यसिद्धः । एतेन स्थिरस्थूरवस्तुनोऽर्थक्रियाविरहप्रतिपादनमपि प्रतिव्यूढम्, तथाविधस्यैव सर्वक्रियासु व्यापारदर्शनात् क्षणक्षयिणोऽर्थक्रियानिषेधाच्च । यथोक्तं प्राक्-क्षणभङ्गुरो यर्थात्मा स्वक्षणे पूर्व पश्चाट्टा कार्य कुर्यादित्यादि । किं च सत्त्वपुरुषत्वचैतन्यादिभिर्बालकुमारयुवस्थविरत्वहर्षविषादादिभिश्चानु- 10 वर्तमानव्यावर्तमानरूपस्य सर्वस्य वस्तुनः प्रतीतेव्यपर्यायात्मकत्वम्, अभेदस्य द्रव्यत्वात्, भेदस्य पर्यायरूपत्वादिति । ततश्च भूतभाविक्षणयोरसंनिधानद्वारेण वार्तमानिकक्षणस्यैवार्थक्रियाकारित्वप्रतिपादनं नास्मद्वाधाकरम, पर्यायाणां क्रमभावितया वर्तमानपर्यायालिङ्गितस्यैव द्रव्यस्यार्थक्रियाकरणचतुरत्वात्, केवलं तत्रिकालव्यापि द्रष्टापि द्रव्यरूपतया यथाभूत एव, ततश्च क्षणिक- 15 पर्यायतिरोधानद्वारेण तद्रूपसंकलनात् स्थिरमेवेदं समस्तक्रियासु व्याप्रियते इति प्रतीतिवीथीमवतरति, स्थैर्यस्यापि तात्विकत्वात, क्षणिकपर्यायाणां विद्यमानानामप्यग्रहणात, प्राकृतलोकज्ञानस्यावरणक्षयोपशमापेक्षितया कतिचिदंशविषयत्वात । यदि पुनद्रव्यबुद्धिः पर्यायपरंपरादर्शनबलायातत्वादतात्विकी कल्प्येत, तदा पूर्वपर्यायस्योत्तरपर्यायोत्पादने सान्त्रयत्वं निरन्वयत्वं 20 वा वक्तव्यम्, गत्यन्तराभावात् । सान्वयत्वे द्रव्यं पर्यायान्तरेणाभिहितं स्यात्, निरन्वयत्वाच्च पुनर्निर्हेतुतयोत्तरपर्यायानुत्पादप्रसङ्गः । तन्नोभयरूपवस्तुव्यतिरेकेणार्थक्रियासिद्धिः । न चार्थक्रिया वस्तुलक्षणम, शब्दविद्यतादीपादिचरमक्षणानां क्षणान्तरानारम्भकत्वेनावस्तुत्वप्राप्तेः, तदवस्तुत्वे पुनरुपान्त्यक्षणस्यापि वस्तुनि व्यापाराभावात्, एवं यावत्सर्वक्षणानां संकलिकया वस्तुत्वम् । 25 अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजनकत्वमर्थक्रिया परिकल्प्येत, तथा सति अतीतभावपर्यायपरंपरापि योगिज्ञानगोचरतां यातीति वस्तुत्वं स्वीकुर्यात, नार्थक्रि या वस्तुलक्षणम्, अपि तु उत्पादव्ययध्रौव्ययुक्तता, प्रमाणप्रतिष्ठितत्वात् । उत्पादव्ययौ ध्रौव्येण सह विरुद्धाविति चेत्, कुतोऽयं विरोधः, प्रमाणादप्रमाणाद् वा । न तावदाद्यः पक्षः, सर्वप्रमाणानां बहिरन्तस्तथाविध- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org