________________
96
न्यायावतारः, २९
योऽभ्युपगन्तव्य इति अनादिपर्यायपरंपरासिद्धिमध्यासीत, तथा व्यवहारावतारिवस्तुपर्यन्तपर्यायस्य पर्यायान्तरानुत्पादकत्वे बलादवस्तुत्वमाढौकते, भवनीतेरेवार्थक्रियाकरणवैकल्यात्, तदुत्पादकत्वे पुनरसावप्यपरपर्यायोत्पादकत्वे
इत्यनन्तपर्यायमालोपपद्यते । तथा घनाकारोऽपि विशददर्शनेन साक्षात्क्रिय___ माणो निष्प्रदेशपर्यन्तावयवव्यतिरेकेण नोपपद्यते, करचरणशिरोग्रीवाद्यवय
वानां खण्डशो भिद्यमानतयावयविरूपत्वात्, तदवयवानामप्यवयवान्तरघटितत्वात् । परमाणव एव पर्यन्तावयवाः परमार्थतो घनाकारहेतवः, तदभावे पुनराकस्मिकोऽसौ सर्वत्रोपलभ्येत, न वा क्वचित्, विशेषाभावात् । एतेन
यदवादि–लोकव्यवहारावतारिणः प्रमाणमनुग्राहकमस्ति वस्तुनो नेतरस्ये10 त्यादि तदपि प्रतिक्षिप्तमवगन्तव्यम्, दृश्यमानार्थान्यथानुपपत्त्यैव तत्साधनात् ।
यत् पुनरुक्तम्-किं तेषामतीतानागतपर्यायपरमाण्वादीनां पर्यालोचनेन लोकव्यवहारानुपयोगितया वस्तुत्वादित्यादि, तदयुक्तम्, उपेक्षया वार्तमानिकवस्तुनोऽनुपयोगित्वेनावस्तुत्वप्राप्तेः, सर्वस्य सर्वलोकानुपयोगित्वात् । कस्यचि
दुपयोगितया वस्तुत्वे तेषामपि सा समस्त्येव, सर्वज्ञज्ञानादिगोचरत्वाद् 15 इत्यास्तां तावत् । तदेवं प्रमाणप्रसिद्धार्थापलापित्वाद् व्यवहारो दुर्नयः,
तदुपेक्षया व्यवहारानुपातिवस्तुसमर्थकस्य व्यवहारनयत्वादिति ।
___ अथ ऋजुसूत्रोऽपि दृष्टापलापेनादृष्टमेव क्षणक्षयिपरमाणुलक्षणं वस्तुस्वरूपं परमार्थतया मन्यमानो दुर्नयतामास्कन्दति, दृश्यमानस्थिरस्थूरार्थापह्नवे निर्मूलतया स्वाभिप्रेतवस्तुसमर्थकपरामर्शस्योत्थानाभावात् । तथा हिस्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षाल्लक्षयन् पश्चात् कुयुक्तिविकल्पेन विवेचयेत्, यदुतैष स्थिरस्थूरो दृश्यमानः खल्वाकारो न घटामियर्ति, विचाराक्षमत्वादित्यादिना च दृष्टमदृष्टसंदर्शकः कुयुक्तिविकल्पैर्बाधितुं शक्यम्, सर्वत्रानाश्वासप्रसङ्गात् । अथाभिदधीथाः-मन्दमन्दप्रकाशे प्रदेशे
रज्जौ विषधरभ्रान्तिः प्राक्तनी यथोदीचीनेन तन्निर्णयकारिणा विकल्पेन 25 बाध्यते, तथेदमपि स्थिरस्थूरदर्शनं क्षणक्षयिपरमाणुप्रसाधकपरामर्शेन, किम
त्रायुक्तम्, नेतदस्ति, रज्जुप्रतिभासस्यैव प्राक्प्रवृत्तविषधरभ्रान्त्यपनोददक्षत्वात्, तदभावे च विकल्पशतैरपि निवर्तयितुमशक्यत्वात्, अत्राप्यतीतवर्त्यतोर्विनष्टानुत्पन्नतया संनिहितत्वात्, स्थूरावयवानां च स्वावयवेषु भेदाभेद
द्वारेण पर्यालोच्यमानानामवस्थानाभावात् क्षणक्षयिपरमाणव एव प्रतिभान्ति, 30 ततश्च प्रतिभास एव स्थिरस्थूरदर्शनस्य बाधक इति चेत्, एवं तहि प्रति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org