________________
न्यायावतारः, २९
95 ग्राह्यो जन्यत्वाद्वा ज्ञानं ग्राहकमतिप्रसङ्गादित्युक्तम्, किं तर्हि आवरणविच्छेदादेर्लब्धसत्ताकं ग्रहणपरिणामात् ज्ञानं गृह्णाति, अर्थस्तु संनिधानादेर्गृह्यते, स चानुवर्तमानव्यावर्तमानरूप एव प्रतीयते इति तथाभूतोऽभ्युपगन्तव्यः, न केवलं सामान्यरूप इति । सदसदंशयोः कथमेकत्रावस्थानमिति चेत्, तादात्म्येनेति ब्रूमः । ननु तादात्म्यं भावमात्रमभावमात्रं वापद्येत, इतरेतराव्यतिरिक्तत्वात्, 5 इतरेतरस्वरूपवत्, तन्नोभयरूपवस्तुसिद्धिः। नैतदस्ति, तादात्म्यस्य संबन्धत्वात्, संबन्धस्य च द्वयनिष्ठत्वात्, तदभावे कस्य केन संबन्धः निर्गोचरत्वात् । तस्मादेतौ सदसदंशौ धर्मिरूपतया अभेदिनौ, वस्तुनः सदसद्रूपस्यैकत्वाद्, धर्मरूपतया पुनर्विवक्षितौ भेदमनुभवतः, स्वरूपेण भावात्, पररूपेण त्वभावादिति । तदेवं प्रत्यक्षे विविक्तवस्तुग्राहिणि सकलप्रमाणप्रष्ठे प्रसाधिते शेष- 10 प्रमाणान्यपि तदनुसारितया विविक्तमेव स्वगोचरं स्थापयन्तीति, तदपलापी केवलसामान्यप्रतिष्ठापकः कदभिप्रायः संग्रहदुर्नयव्यपदेशं स्वीकुरुते, विशेषापेक्षयव सामान्यस्थापकस्य संग्रहनयत्वादिति ॥
___ तथा व्यवहारोऽपि प्रमाणप्रसिद्धं वस्तुस्वरूपं निह्नवानो युक्तिरिक्तमविचारितरमणीयं लोकव्यवहारमार्गानुसारि समर्थयमानो दुर्नयतामात्मनि 15 निधत्ते, लोकव्यवहारप्रसाधकस्यापीतरानिष्टौ व्यवस्थानाभावात् । तथा हियदीदं कियत्कालभावि स्थरतामाबिभ्राणं लोकव्यवहारकारि घटादिकं भवतस्तात्त्विकमभिप्रेतं तन्नाकस्मिकम्, किं तर्हि नित्यपरमाणुघटितम्, इतरथा निष्कारणत्वेन सर्वदा भावाभावप्रसङ्गात् । न ते परमाणवस्तथा प्रतिभान्तीति चेत्, न, अत एव तेषामनुमानतः सिद्धिः, यदि पुनर्यदेव साक्षान्न विशददर्शने 20 चकास्ति तत्सकलमपलप्यत हन्त बह्विदानीमपलपनीयम, घटादिवस्तुनोऽप्यर्वाग्भागवर्तित्वङ्मात्रप्रतिभासात् मध्यपरभागादीनामपलापप्रसङ्गात्, तथा च लोकव्यवहारकारितापि विशीर्येत, तावता तदसिद्धेः । अथावानुमानबलेन व्यवहारक्षमसंपूर्णवस्तुनः साधनम्, एवं तहि भूतभाविपर्यायपरमाणुसाधनमपि क्रियताम्, विशेषाभावात् । तथा हि-यथा बाह्यत्वङ्मात्रप्रतिभासेऽपि सर्व- 25 वस्तूनां तावता व्यवहाराभावाद् मध्यभागादिसाधनेन संपूर्णानि तत्समर्थानि तानि साध्यन्ते, तथैव कियत्कालभाविघनाकारदर्शनेऽप्यनाद्यनन्तपरमाणुतादात्म्यव्यवस्थितशरीराणि तानि साध्यन्ताम्, तदभावेऽपि तेषामनुपपत्तेः । तथा हि-व्यवहारावतारिणो दर्शनयोग्यस्याद्यपर्यायस्य तावदतीतपर्यायानभ्युपगमे निर्हेतुकत्वम्, तत्र चोक्तो दोषः, तदुत्पादकादन्तरपर्यायेष्टौ पुनस्तज्जनकपर्या- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org