________________
94
न्यायावतारः, २९
।
तथा संग्रहोऽप्यशेषविशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात्, विशेषविकलस्य सामान्यस्यासंभवात् । तथा हि-यत्तावदुक्तम्– यदुत विशेषाः सामान्याद् व्यतिरेकिणोऽव्यतिरेकिणो वा । व्यतिरेकपक्षे निःस्वभावत्वम्, निःसत्ताकत्वात् । अव्यतिरेकपक्षे भावमात्रम्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् । तदयुक्तम्, विशेषवादिनोऽप्येवंविधविकल्पसंभवात् । तथा हि-विशेषेभ्यः सामान्यं व्यतिरिक्तमव्यतिरिक्तं वा व्यतिरिक्तं चेन्न तर्हि सामान्यम्, स्वस्वरूपव्यवस्थिततया विशेषरूपत्वात् । अव्यतिरिक्तं चेत्, तथापि न सामान्यम्, विशेषाव्यतिरिक्तत्वादेव तत्स्वरूपवत् । यदप्यवादि-अनाद्यविद्याबलप्रवृत्तो. विशेषव्यवहारः, तात्त्विकं सामान्यम्, तदपि च वचनमात्रमेव, युक्तिरिक्तत्वात्, सामान्यमेवानाद्य विद्यादशितम्, विशेषाः पुनः पारमार्थिका इति विशेषवादिनोऽपि वदतो वक्त्रभङ्गाभावात् । यत्पुनविशेष ग्राहक प्रमाणाभावं प्रतिपादयता अभ्यधायि – यदुत प्रत्यक्षं भावसंपादितसत्ताकं तमेव साक्षात्करोति नाभावं तस्यानुत्पादकत्वादित्यादि, तदयुक्ततरम्, यतः केनेदं भवतोऽत्यन्तसुहृदा निवेदितं भाव एव केवलः प्रत्यक्ष15 मुपस्थापयति, न पुनरभावोऽपि । अभावव्यापाराभावप्रतिपादकयुक्तिकलापेनेति चेत् मुग्ध, विप्रतारितोऽसि तद्व्यापाराभावासिद्धेः, सदसद्रूपवस्तुनः समस्तक्रियासु व्यापारात् । भावतादात्म्येन व्यवस्थितस्याभावस्य व्यापारविरोधाभावात् कथं भावाभावयोस्तादात्म्यम्, विरोधादिति चेत्, न, प्रमाणप्रसिद्धे विरोधाभावात् । तथा हि-घटादिकः पदार्थात्मा स्वरूपेण सन्, न पटादि - रूपेणापि इति भावाभावात्मकः, यदि पुनः कथंचिन्नाभावात्मकः स्यात्, तदा पटादिरूपेणापि भावात् सर्वात्मकः प्राप्नोति युक्तमेतत्, अत एव भेदप्रपञ्चविलयसिद्धिरिति चेत्, स्यादेतत्, यदि पटाद्यभावैकान्ताच्छून्यवादिनो मनोरथपूरणं न स्यात् । तथा हि-पटादिविविक्तो घटोऽनुभूयते, न च पटाद्यभावो भावेन सह तादात्म्यमनुभवति, तस्मादभावात्मक एवायम्, एवं पटादयोऽपीतरेतरापेक्षयेति शून्यत्वापत्तिः, तस्मात् स्वरूपमाबिभ्राणं पररूपेभ्यो व्यावृत्तमेव वस्तु सर्वक्रियासु व्याप्रियते इति भावाभावात्मकस्यैव व्यापारः स्वरूपधारणस्य स्वभावत्वात्, पररूपव्यावर्तनस्याभावत्वादिति । एवं स्वगोचरप्रत्यक्षोत्पादनेऽपि व्याप्रियते, ततश्च तद्रूपमेव तत्साक्षात्कुर्यादिति स्वरूपनियते पररूपेभ्यो व्यावृत्ते एव वस्तुनि प्रत्यक्षं प्रवर्तते, तज्जन्यत्वात्, न भावमात्रे, तस्य केवलस्य स्वरूपाव्यवस्थितेरुत्पादकत्वायोगात् । न च जनकत्वादर्थो
5
10
20
25
30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org