________________
न्यायावतारः, २९
93
त्करणात्, शेषविशेषाणामसंनिधानात्, संनिहितविशेषनिष्ठमेव तदुपलभ्यते, तस्यैव तद्वयञ्जकत्वात् । इतरेषां तदभावादिति चेन्न, एकस्वभावस्य खण्डशो व्यञ्जनायोगात्, संनिहितविशेषव्यजितमेव तत्सर्वत्र स्वभावान्तराभावात् सर्वविशेषगतं च तद्रूपमतस्तद्दर्शनं केन वार्येत । अथ द्वितीयः कल्पः, तथा सति यथा एकविशेषोपलम्भसमये नोपलभ्यते, तथा विशेषोपलम्भकालेऽपि 5 नोपलभ्येत, विशेषाभावात्, अतस्तदभाव एवोक्तः स्यात्, केवलस्योपलम्भाभावात्, उपलम्भेऽपि स्वस्वभावस्थितेर्विशेषरूपतापत्तिः, तथा चिरंतनविशेषव्यवस्थितसत्ताकं तन्नूतनविशेषोत्पादे सति कथं तेन सह संबन्धमनुभवेत् । न तावद्विशेषान्तरेभ्यस्तदुत्पित्सु विशेषदेशं गन्तुमर्हति, निष्क्रियत्वात्, नापि तत्रैवाभवत्, विशेषोत्पादात्प्राक् तद्देशे तदुपलम्भाभावात्, नापि विशेषेण 10 सहोत्पद्यते, नित्यत्वात्, नित्यस्य चोत्पत्तिनिरोधाभावात् । अथ एतद्दोषपरिजिहीर्षया तत्सक्रियकमभिधीयते, तथापि पूर्वव्यक्तित्यागेन वा नूतनविशेषदेशमाक्रामेत् तदभावेन वा । न तावदाद्यः पक्षः, चिरंतनव्यक्तीनां सामान्यविकलतया तत्संबन्धसाध्यबुद्धिध्वनिविरहप्रसङ्गात्, न चैतदस्ति, अपरापरविशेषोत्पादेऽपि प्राचीनव्यक्तिषु तदर्शनात् । अथ द्वितीयः कल्पः, तदप्यसं- 15 बद्धम्, निरवयवस्य पूर्वव्यक्तित्यागवैकल्येन समुत्पित्सुव्यक्तिप्रतिगमनाभावात, सावयवपक्षस्य पुनः प्रागेवापास्तत्वात्, नैतदभ्युपगमद्वारेण परिहारः श्रेयान् । अन्यच्च व्यतिरिक्तसामान्यसंबन्धाद् यदि भावाः समानाः, न स्वरूपेण, तदा सत्त्वसंबन्धात्प्राग् भावाः सन्तोऽसन्तो वा । सन्तश्चेदपार्थकः सत्तासंबन्धः, अन्यथानवस्था प्रसज्येत, पुनः सत्तान्तरसंबन्धानिवारणात । असन्तश्चेदत्यन्ता- 20 सतामपि गगनारविन्दादीनां सत्तासंबन्धात् भावरूपतापद्येत । एवं द्रव्यत्वगुणत्वकर्मत्वगोत्वादिसामान्येष्वपि समस्तमेतद्वाच्यम्, एकयोगक्षेमत्वात्, तन्न परस्परमत्यन्तव्यतिरेकिणौ सामान्यविशेषौ कथंचन घटामाटीकेते । अत एव तत्समर्थनप्रवणस्तत्तादात्म्यप्रतिक्षेपकोऽभिप्रायो निरालम्बनत्वान्नैगमदुर्नयस्य व्यपदेशमास्कन्दति, तादात्म्यापेक्षयव सामान्यविशेषव्यतिरेकसमर्थकस्य नैगम- 25 नयत्वात्, व्यतिरेकिणोरपि तयोर्वस्तुनि कथंचिद् भावात्, इतरथा विवक्षयापि तथा दर्शयितुमशक्यत्वात्, प्रधानोपसर्जनभावस्य द्वयनिष्ठत्वात्, अत्यन्ततादात्म्येन तत्कारिण्या विवक्षाया अपि निर्गोचरताप्रसङ्गात् । तस्मात्कथंचिद् भेदाभेदिनावेवैतौ, तदन्यतरसमर्थकः पुनः निरालम्बनत्वात् दुर्नयतां स्वीकरोतीति स्थितम् ॥
30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org