________________
92
नुपपत्तेः । एतेन यदवादि 'न चैतौ विभिन्नावपि प्रतिभासमानौ सामान्यविशेषौ कथंचिद् मिश्रयितुं युक्तावित्यादि' तदपास्तमवगन्तव्यम्, विभिन्नयोः प्रतिभासाभावात्, व्यवहारोऽपि सर्वप्रधानोपसर्जनद्वारेण कथंचिदितरेतराविनिर्लुठितसामान्यविशेषसाध्य एव । न हि सामान्यं दोहवाहादिक्रियायामुपयुज्यते, विशेषाणामेव तत्रोपयोगात्; नापि विशेषा एव तत्कारिणः, गोत्वशून्यानां तेषां वृक्षाद्यविशिष्टतया तत्करणसामर्थ्याभावात् । किं च अत्यन्तव्यतिरेके सामान्यविशेषयोः 'वृक्षं छिन्द्धि' इति चोदितः किमिति तद्विशेषे पलाशादौ छेदं विधत्ते । तत्र तस्य समवायादिति चेन्न । समवायग्राहकप्रमाणाभावात् भावेऽपि विश्लिष्टयोरभेदबुद्धयुत्पादनाक्षमत्वात्, तस्यापि 10 व्यतिरिक्ततया पदार्थान्तराविशेषात् नित्यत्वैकत्वसर्वगतत्वादिभिश्च सर्वत्र तत्करणप्रसङ्गात् । यत्पुनरवादी: 'यदुत यदि सामान्यं विशेषनिष्ठम्, विशेषो वा सामान्यव्याप्तः समुपलभ्येत ततो विविक्तयोस्तयोः क्वचिदनुपलम्भात् योऽयं विविक्तः सामान्यविशेषेषु चाभिधानार्थक्रियालक्षणो व्यवहारः स समस्तः प्रलयं यायाद्, लोलीभावेन तद्विवेकस्य कर्तुमशक्यत्वात् ', तदप्य15 समीचीनम् । यतो यद्यपि परस्पराविविक्तयोः सामान्यविशेषयोः सर्वत्रोपलम्भ:, तथापि यत्रैव प्रमातुरर्थित्वं तदेव सामान्यम्, विशेषान्वा प्रधानीकृत्य तद्गोचरं ध्वनिमर्थक्रियां वा प्रवर्तयति, इतरस्याप्युपसर्जन भावेन तत्र व्यापारात्, तद्विकलस्येतरस्यापि शशविषाणायमानतया क्वचिदनुपयोगात् । किं च, अत्यन्तव्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्तिविकल्पोपलम्भनूतन20 विशेषसंबन्धादिद्वारेण दूषणमुद्गरकदम्बकं मूर्धनि पतद् दुर्विषहं स्यात् । तथा हि-तत्तेषु कथं वर्तेत सामस्त्येन एकदेशेन वा । सामस्त्यपक्षे प्रतिविशेषं परिसमाप्ततया सामान्यबहुत्वप्रसङ्गः, अनिष्टं चैतद्, एकत्वाभ्युपगमक्षतेः । एकदेशेन पुनर्यावन्तो विशेषास्तावन्तस्तदंशाः प्रसजन्ति न चैतदस्ति, सामान्यस्य निरवयवत्वात्, सावयवत्वेऽपि पुनस्ते भिन्ना अभिन्ना वा । 25 यद्यभिन्ना विशेषाः, तर्ह्यभेदिनः किं नेष्यन्ते, विशेषाभावात् । भेदपक्षे पुनस्तेवपि तत्कथं वर्तेत – सामस्त्येन एकदेशेन वेति । तदेव चोद्यमलब्धपरिनिष्ठमवतरति, तन्नात्यन्तभेदिनो वृत्तिः संभवति । किं च यद्येकं सामान्यं भेदवत् समस्तविशेषेषु वर्तेत, तदैकविशेषोपलम्भकाले तदुपलभ्यते न वा । यद्याद्यः पक्षः, तस्यैकतया सर्वत्रोपलम्भात्, व्याप्यग्रहणाभावे व्यापकग्रहणासिद्धेः 30 निखिलतद्वयाप्यविशेषग्रहणमासज्येत, न चैतदस्ति, पुरोवर्तिविशेषस्यैव साक्षा
5
Jain Education International
न्यायावतारः, २९
For Personal & Private Use Only
www.jainelibrary.org