________________
न्यायावतारः, २९
91
दावपि तत्प्रवर्तनं दुनिवारं स्यात्, विशेषाभावात्, तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन्नेव सोऽर्थस्तच्छब्देन वाच्य इत्येवंभूतः ।
तदेवमनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम्, तद्द्वारायातः पुनरेकधर्मनिष्ठार्थसमर्थनप्रवणः परामर्शः शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः। स च धर्माणामानन्त्यादनन्तभेदः, तथापि सर्वसंग्राहकाभिप्रायपरिकल्पन- 5 मुखेनैव सप्तभेदो दर्शितः । अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शो दुर्नयसंज्ञामश्नुते। तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः । तथा हि-गमनयदर्शनानुसारिणौ नैयायिकवैशेषिको। संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः, सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनय- 10 मतावलम्बिनो वैयाकरणादय इति । अथेत्थमभिदधीथाः यथा-कथमेतेऽवधारणद्वारेण स्वकमर्थं समर्थयन्तस्तद्विपरीतं निराकुर्वाणा दुर्नयतां प्रतिपद्यन्ते इति, अत्रोच्यते एवं प्रवृत्तौ निर्गोचरत्वात्, निर्गोचरस्य नयत्वायोगात् । तथा हि-नयति केनचिदंशेन विशिष्टमथं प्रापयति योऽभिप्रायः स नयः, स्वाभिप्रेतधर्मात् शेषधर्मप्रतिक्षेपद्वारेण तु प्रवृत्तौ न किंचन नयति, एकधर्मा- 15 लिङ्गितस्य वस्तुनोऽसंभवात्, बहिरन्तश्चानेकधर्मपरिकरितस्वभावस्य तस्य प्रतिभासात्, तदपह्नवकारिणां कदभिप्रायाणां प्रतिभासबाधितत्वेनालीकत्वात् । तथा हि यः तावन्नैगमनयः परस्परविश्लिष्टौ सामान्यविशेषौ प्रत्यपीपदत्, तदयुक्तम्, तयोस्तथा कदाचन प्रतिभासाभावात् । यच्चोक्तम्-अनुवर्तमानैकाकारपरामर्शग्राह्य सामान्यं यत्र न तत्र विशेषप्रतिभासः, यत्र च विशिष्ट- 20 देशदशावच्छिन्नबोधनिर्ग्राह्यो विशेषो न तत्र सामान्यावगतिः, तद्वचनमात्रमेव, धवखदिरपलाशादिसमस्तविशेषापसरणे वृक्षत्वादिसामान्यप्रतिभासाभावात् । दूराद्विशेषाग्रहणेऽपि केवलं तच्चकास्तीति चेत्, तत्राप्यभ्यन्तरीभूतविशेषप्रतिभासात् । तद्विरहे शशविषाणरूपत्वात् । एवं विशेषा अपि न सामान्यादत्यन्तव्यतिरेकिणः प्रतिभान्ति, तन्निमग्नानामेव तेषां ग्रहणात्, इतरथा सत्तातोऽति- 25 रिच्यमाना भावा निःस्वभावतामात्मसात्कुर्वन्ति । तथा वृक्षत्वादिसामान्येभ्योऽपि भेदिनो वृक्षादयो न स्युः, तदभेदनिबन्धनत्वात् तत्स्वरूपस्थितेः, तस्मात्तदेव संवेदनमुपसर्जनीकृतवैषम्यं प्रधानीकृतकाकारं सामान्यं गृह्णाति इत्युच्यते, न्यक्कृतसमत्वमुत्कलितनानात्वं पुनर्विशेषग्राहीति, समत्वनानात्वयोः कथंचिद् भेदाभेदिनोः परस्परं सर्वार्थेषु भावात्, तदभावे तथाविधप्रतिभासा- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org