SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 90 न्यायावतारः, २९ शब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते, तेभ्यः सर्वदेवैकाकारपरामर्शोत्पत्तेः, अस्खलढत्तितया तथैव व्यवहारदर्शनात् । तस्मादेक एव पर्यायशब्दानामर्थ इति शब्दः । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थ इति निरुक्तादेकार्थप्रतिपादकताभिप्रायेणैव पर्यायध्वनीनां प्रयोगादिति ॥ सांप्रतं समभिरूढमतमुपवर्ण्यते तत्र सम् एकीभावेनाभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ योऽभिप्रायः स समभिरूढः । अयं हि पर्यायशब्दानां प्रतिविभक्तमेवार्थमभिमन्यते, तद्यथा-इन्दनादिन्द्रः, परमैश्वर्यमिन्द्रशब्दवाच्यं परमार्थतः, तद्वत्यर्थे पुनरुपचारतो प्रवर्तते, न वा कश्चित् तद्वान्, सर्वशब्दानां परस्परप्रविभक्तार्थप्रतिपादकतया आश्रयायिभावेन प्रवृत्त्यसिद्धः । 10 एवं शकनाच्छऋः, पूर्दारणात् पुरंदर इत्यादि भिन्नार्थत्वं सर्वशब्दानां दर्शयति, प्रमाणयति च–पर्यायशब्दा विभिन्नार्थाः, प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वात्, इह ये ये प्रतिविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः, यथा इन्द्रघटपुरुषादिशब्दाः, विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं प्रतिपाद्यते तदयुक्तम्, अति15 प्रसङ्गात् । तथा हि-यदि युक्तिरिक्ता प्रतीतिरेव शरणीक्रियते, तदा तदा मन्दमन्दप्रकाशे दवीयसि देशे संनिविष्टशरीरविभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारतामाबिभ्राणाः प्रतीयन्ते इति एकतयैवाभ्युपगन्तव्याः । न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनीकप्रत्ययोपनिपातबाधितत्वेन पूर्व प्रतीतेः विविक्तानामेव तेषामभ्युपगमात्, तन्नैकार्थवाचिनो ध्वनयः सन्ति, रूढिः 20 पुनरविचारिततदर्थानामिति समभिरूढः ॥ सांप्रतमेवंभूताभिप्रायः प्रतिपाद्यते तत्रैवंशब्दः प्रकारवचनः, ततश्चैवं यथा व्युत्पादितः तं प्रकारं भूतः प्राप्तो यः शब्दः स एवंभूतः, तत्समर्थनप्रधानाभिप्रायोऽप्येवंभूतः, तद्विषयत्वात्, विषयशब्देन च विषयिणोऽभिधानात् । अयं हि यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव विवर्तते तदैव 25 तं शब्दं प्रवर्तमानमभिप्रेति, न सामान्येन । यथा उदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽभिधीयते, न शेषः, घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवदिति । अतीतां भाविनी वा चेष्टामधिकृत्य सामान्येनैवोच्यते इति चेन्न, तयोविनष्टानुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्द्वारेण शब्दः प्रवर्तते, सर्वत्र प्रवर्तयितव्यः, विशेषाभावात् । किं च 30 यद्यतीतवय॑च्चेष्टापेक्षया घटशब्दोऽचेष्टावत्यपि प्रयुज्येत, कपालमृत्पिण्डा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy