________________
न्यायावतारः, २९
तेषामलीकवासनाप्रबोधोत्थापित्तत्वेन प्रामाण्यायोगात् । किं च, तान्यपि स्वयं वर्तमानक्षणे एव प्रकाशन्ते, विप्लववशात्तु स्वरूपमेव वासनासंपादितातीतार्थरूपतया व्यवस्यन्ति, घनाकारं च तस्यासन्तमध्यारोपयन्ति, तन्न तेभ्योऽपि व्यापिवस्तुसिद्धिः । तस्माद् व्यापिनि रूपे प्रमाणानवतारात् परस्परविश्लिष्टाः परमाणव एव परमार्थत इति ऋजुसूत्रः ॥
तदिदमर्थस्वरूपनिरूपणनिपुणानां नयानां मतमुपवर्णितम्, अधुना शब्दविचारचतुराणामुपवर्ण्यते तत्र त्रयाणामपि शब्दादीनामिदं साधारणाकृतम्, यदुत शब्द एव परमार्थो नार्थः, तस्य तदव्यतिरिक्तत्वात् । पार्थक्येन वस्तुत्वसिद्धेः कथमव्यतिरेक इति चेत्, प्रमाणादिति ब्रूमः । तथा हि-न व्यतिरिक्तोऽर्थः शब्दात्, तत्प्रतीतौ तस्य प्रतीयमानत्वात्, इह यत्प्रतीतौ यत्प्रतीयते 10 तत् ततोऽव्यतिरिक्तं भवति, तद्यथा शब्दे प्रतीयमाने तस्यैव स्वरूपम्, प्रतीयते च शब्दे प्रतीयमानेऽर्थः, अतोऽसौ ततोऽव्यतिरिक्त इति । अथ अगृहीतसंकेतस्य घटशब्दश्रवणेऽपि घटप्रतीतेरभावाद् व्यतिरिक्त इति चेत्, एवं तर्हि विषस्य मारणात्मकत्वं तदज्ञस्य न प्रतिभातीति तत्ततो व्यतिरिक्तमापद्येत, न चैतदस्ति, तदव्यतिरेकाविशेषेण गुडखण्डवद्विषस्याप्यमारकत्वापत्तेः, संबन्धस्य च व्यति- 15 रिक्तेन सह प्रागेवापास्तत्वात्, तन्न अबुधप्रमातृदोषेण वस्तुनोऽन्यथात्वम्, अन्यथान्धो रूपं नेक्षते इति तदभावोऽपि प्रतिपत्तव्य इति । ये निरभिधाना वर्तन्तेऽर्थास्तेषां शब्दात्पार्थक्येन वस्तुत्वसिद्धिरिति चेन्न, निरभिधानार्थाभावात्, केवलं केचित् विशेषशब्दैः संकीर्त्यन्ते, केचित् सामान्यध्वनिभिरित्येतावान् विशेषः स्यात् । यदि वा सकलार्थवाचका विशेषध्वनयो न सन्तीति नास्त्यत्र 20 प्रमाणम् । ततश्च सर्वेऽर्था विद्यमानस्ववाचकाः, अर्थत्वात्, घटार्थवदिति प्रमाणात् सर्वेषां स्ववाचकत्वेन पूर्वोक्तयुक्तेः शब्दादपार्थक्यसिद्धिः । तस्मान परमार्थतोऽर्थः शब्दादव्यतिरिक्तोऽस्ति, उपचारतः पुनििककरपालोचितपरमाथैर्व्यवह्रियते । असावप्यौपचारिकः शब्दात्मको वार्थः प्रतिक्षणभङ्गुरः स्वीकर्तव्यः, वर्णानां क्षणध्वंसिताप्रतीतेः, ऋजुसूत्रप्रतिपादितयुक्तिकला- 25 पाच्च ॥
सांप्रतमेतेषामेव प्रत्येकमभिप्रायः कथ्यते तत्र शब्दो रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दरादयः, तेषां सर्वेषामप्येकमर्थमभिप्रेति किल प्रतीतिवशात् यथा शब्दाव्यतिरेकोऽर्थस्य प्रतिपाद्यते तथैव तस्यैकत्वं वा नैकत्वं वा प्रतिपादनीयम्, न चन्द्रशक्रपुरन्दरादयः पर्याय- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org