________________
88
न्यायावतारः, २९
स्वभावतवास्त्विति चेन्न, विरोधाघ्रातत्वात् । तथा हि-यद्येकः स्वभावः कथमनेकः, अनेकश्चेत् कथमेकः । एकानेकयोः परस्परपरिहारेणावस्थानात्, तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन्निचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति ते एव स्वलक्षणम्, न स्थूरतां धारयत्पारमार्थिकमिति । किं च प्रमाणतोऽर्थव्यवस्था, न च प्रमाणं देशकालव्याप्तिग्रहणे किंचन प्रवर्तते, सर्वप्रमाणानां वर्तमानप्रकाशरूपत्वात् । तथा हि-प्रत्यक्षं तावद्रूपालोकमनस्कारचक्षुर्लक्षणकारणचतुष्टयाल्लब्धसत्ताकं वर्तमानक्षणे एव प्रकाशते, अतीतवय॑त्क्षणयोरसंनिहितत्वात, ततश्च तत्
तत्कालसंबद्धमेव वस्तुनो रूपं साक्षात्कर्तुं क्षमते, न पूर्वमपरंवा, असंनिधानादेव। 10 यदि पुनर्विनष्टमपि पूर्वक्षणवर्तिरूपमाकलयेत्, तदा विनष्टत्वाविशेषान्निर
वधिः क्षणपरंपरा तत्र प्रतीयेत, तथा च सति संकलिकया अनादिजन्मपरंपराग्राहि प्रत्यक्षमनुषज्येत, एवमनागतक्षणग्रहणेऽपि योज्यम्, अनिष्टं चैतत्, तस्मात् तद्वार्तमानिकक्षणग्रहणदक्षमेवेत्यभ्युपगन्तव्यम् । ननु च यदि क्षण
भङ्गरतामर्थात्मनामध्यक्षमेव लोकयति, तदा नीलतेव प्रतिभासमाना सा 15 विप्रतिपत्तिगोचरं न यायादिति तद्विषयो लौकिकानां व्यवहारः प्रवर्तेत, न
चैतदस्ति, स्थिरताद्वारेण व्यवहारप्रवृत्तेरिति । अत्र प्रतिविधीयते-साक्षाकुर्वाणा अपि क्षणविनश्वरतां सदृशापरापरोत्पत्तिविप्रलब्धबुद्धयो मन्दा नाध्यवस्यन्ति, अनादिकालप्ररूढवासनाप्रबोधसमुपजनितमिथ्याविकल्पसाम
र्थ्याच्च विपर्यस्तस्थिरताव्यवहारं प्रवर्तयन्ति, तन्नायमध्यक्षस्यापराधः, अपि 20 तु प्रमातृणामेव । तथा हि-घनाकारोऽपि प्रत्यक्षपृष्ठभाविमिथ्याविकल्प
संदर्शित एव, विविक्तदर्शने तत्प्रतिभासायोगात्, करचरणशिरोग्रीवादयो ह्यवयवाः परस्परविभक्ता एव तत्र प्रतिभान्ति, न व्याप्याकारः, न च तेऽपि स्वांशव्यापिनः प्रतिभान्ति, तदवयवानामपीतरेतरविशकलितरूपाणां प्रति
भासता तावत् यावत्परमाणव एव प्रथन्ते, व्यापिरूपस्य विचाराक्षमत्वादि25 त्युक्तप्रायम् । नाप्यनुमानास्थिरस्थूरवस्तुसिद्धिः, प्रत्यक्षपरिगृहीतं हि संबन्ध
मासाद्यानुमानं प्रवर्तते, यदा च तत्क्षणभङ्गुरविविक्तांशग्रहणचातुर्यमाबिभ्रद् दर्शितं तदानुमानमपि तत्प्रतिबन्धमूलकं तद्गोचरमेव पारंपर्येण प्रतिष्ठापयति, स्वप्रतिभासिनो रूपस्यालीकतया तत्प्रतिष्ठापनद्वारेणैव तस्य प्रामाण्यात् ।
ननु च स्मरणप्रत्यभिज्ञानादीनि स्थिरस्थूरवस्तुव्यतिरेकेण नोपपद्यन्ते, पूर्व30 मदृष्टे तदभावात्, पुरुषाद्यवयविनां स्मरणात्प्रत्यभिज्ञानाच्च । नैतदस्ति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org