________________
न्यायावतारः, २९
87
भेदमवगाहते, प्रत्यक्षं हि तावद्धावसंपादितसत्ताकं तमेव साक्षात्कर्तुं युक्तं नाभावम्, तस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावात्, अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गात्, तथा च विशेषाभावात् . सर्वो द्रष्टा सर्वदर्शी स्यात्, अनिष्टं चैतद् भवताम, तस्माद् भावग्राहकमेव तदेष्टव्यम् । स च भावः सर्वत्राविशिष्ट इति तथैव तेन ग्राह्यः, तदुत्तरकाल- 5 भावी पुनर्विकल्पो 'घटोऽयं पटादिर्न भवति' इत्येवमाकारो व्यवहारं रचयन् अविद्यामूलत्वान्न प्रमाणम्, तन्न प्रत्यक्षाद्विशेषावगतिः । नाप्यनुमानादेः, प्रत्यक्षमूलकत्वाच्छेषप्रमाणवर्गस्य, तस्मात् सामान्यमेव परमार्थो न विशेषा इति संग्रहः ॥
सांप्रतं व्यवहारमतमुच्यते-तत्र व्यवहरणं व्यवह्रियते वानेन लौकिक- 10 रभिप्रायेणेति व्यवहारः । अयं तु मन्यते-यथालोकग्राहमेव वस्त्वस्तु, किमनयादृष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया । यदेव च लोकव्यवहारपथमवतरति तस्यानुग्राहकं प्रमाणमुपलभ्यते, नेतरस्य, न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात्, सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च । नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचरः, तथा 15 प्रवृत्तेरभावात् । तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूरतामाबिभ्राणमुदकाहरणाद्यर्थक्रियानिवर्तनक्षमं घटादिकं च वस्तुरूपं पारमार्थिकमस्तु, पूर्वोत्तरकालभावितत्पर्यायपर्यालोचना पुनरज्यायसी, तत्र प्रमाणप्रसराभावात्, प्रमाणमन्तरेण च विचारस्य कर्तुमशक्यत्वात्, अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन । तथा हि-पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः 20 क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कंचन लोकव्यवहारमुपरचयन्ति, तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् इति व्यवहारः ॥
सांप्रतं ऋजुसूत्राभिप्रायः कथ्यते तत्र ऋजुप्रगुणमकुटिलमतीतानागत• वक्रपरित्यागाद्वर्तमानक्षणविवर्ति वस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयतीति ऋजुसूत्रः । तथा हि-अस्याभिप्रायः । अतीतस्य विनष्टत्वात् अनागतस्या- 25 लब्धात्मलाभत्वात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वान्नार्थक्रियानिर्वर्तनक्षमत्वम्, अर्थक्रियाक्षमं च वस्तु, तदभावान्न तयोर्वस्तुत्वमिति, वर्तमानक्षणालिङ्गितं च पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियते इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम्, अंशव्याप्तेर्युक्तिरिक्तत्वाद, एकस्यानेकस्वभावतामन्तरेणानेकस्वावयवव्यापनायोगात् । अनेक- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org