________________
86
न्यायावतारः, २९
युक्तौ, अतिप्रसङ्गात्, विभिन्नप्रतिभासिनामपि निखिलार्थात्मनामैक्यप्राप्तेः । एवं च प्रमाणयति-परस्परविश्लिष्टौ सामान्यविशेषौ, पार्थक्येनोपलब्धः, इह यद्यत् पार्थक्येनोपलभ्यते तत्तत् परस्परविश्लिष्टं द्रव्यम्, तद्यथा देवदत्तयज्ञदत्ताविति, पार्थक्येन चोपलभ्यते सामान्यविशेषौ, अतः परस्परविभिन्नाविति । न सामान्यात् पृथग्विशेषोपलम्भ इति चेत्, कथं तर्हि तस्योपलम्भ इति वाच्यम्, सामान्यव्याप्तस्येति चेत्, न तहि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात्, ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति, विशेषाभि
धानव्यवहारयोः प्रवृत्तिदर्शनात, तस्माद्विशेषमभिलषता तत्र च व्यवहारं 10 प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । तथा सामान्यमपि
विविक्ताकारतया स्वग्राहिणि ज्ञाने यदि न प्रकाशेत, तदा तद्गोचराभिमतसंवेदनेन विशेषस्याप्याकलनात सामान्याभिधानव्यवहारयोः प्रवत्तेरुच्छेदस्तथैव वक्तव्यः, विविक्तसामान्यग्राहिबोधमूलकत्वात्तयोः, तदनिष्टौ तयोरप्य
भावापत्तेः । न च सामान्यं विशेषं वा तिरस्कृत्य केवलस्य विशेषस्य 15 सामान्यस्य वाभ्युपगमः कर्तुं युक्तः, द्वयोरपि स्वग्राहिज्ञाने प्रतिभासमान
तया विशेषाभावात् । तस्मादेतौ द्वावपीतरेतरविशकलितावङ्गीकरणाऱ्या विति नैगमः ॥ ____ अधुना संग्रहाभिप्रायो वर्ण्यते । तत्र संगृह्णाति अशेषविशेषतिरोधान
द्वारेण सामान्यरूपतया जगदादत्ते इति संग्रहः । अयं हि मन्यते-भावलक्षण20 सामान्याद् व्यतिरिच्यमानमूर्तयो वा विशेषाः परिकल्प्यरन, अव्यतिरिच्यमान
मूर्तयो वा, गत्यन्तराभावात् । तत्र यद्याद्यः पक्षः, तदा निःस्वभावतांते स्वीकुर्युः, भावव्यतिरेकित्वात्, गगनकुसुमादिवत् । अथ द्वितीयः कल्पः, तहि भावमात्रमापद्यन्ते । तथा हि-भावमात्रं विशेषाः । तदव्यतिरिक्तत्वाद, इह यद्यतोऽव्यतिरिक्तं तत्तदेव भवति, तद्यथा भावस्यैव स्वरूपम्, अव्यतिरेकिणश्च विशेषाः, अतस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाद् य एते प्रतिप्राणि प्रसिद्धाः स्तम्भेभकुम्भाम्भोरुहादिविशिष्टवस्तुसाध्या व्यवहारिणस्ते सर्वेऽपि प्रलयमापोरन,अतो विशेषा अपि विविक्तव्यवहारहेतवोऽभ्युपगन्तव्याः। नैतदस्ति, व्यवहारस्याप्यनाद्यविद्याबलप्रवर्तितत्वात, तेन पारमार्थिकप्रमाण
प्रतिष्ठिततत्त्वप्रतिबन्धाभावात् । किं च विशेषाग्रहो विशेषेण त्याज्यः, विशेष30 व्यवस्थापकप्रमाणाभावात् । तथा हि-भेदरूपा विशेषाः, न च किंचित्प्रमाणं
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org