________________
न्यायावतारः, २९
तदेकदेशधर्मपर्यायावसिताभिप्रायाणां च नयत्वात्, तथापि चिरंतनाचार्यैः सर्वसंग्राहिसत्ताभिप्राय परिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथानंगमसंग्रहव्यवहारर्जु सूत्रशब्दसमभिरूढैवंभूता नयाः इति । अतोऽस्माभिरपि ते एव वर्ण्यन्ते । कथमेते सर्वाभिप्रायसंग्राहकाः इति चेत्, उच्यते । अभिप्रायस्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तेत, गत्यन्तराभावात्, अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि रूढितो व्युत्पत्तितश्च, व्युत्पत्तिरपि सामान्यनिमत्प्रयुक्ता तत्कालभाविनिमित्तप्रयुक्ता वा स्यात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्याद्ये नयचतुष्टयेऽन्तर्भवन्ति, तत्रापि ये परस्परविशकलितौ सामान्यविशेषाविच्छन्ति तत्समुदायरूपो नैगमः । ये पुनः केवलं सामान्यं वाञ्छन्ति तत्समूहसंपाद्यः संग्रहः । ये पुनरनपेक्षितशास्त्रीयसामान्यविशेषं लोकव्यवहारमवतरन्तं घटादिकं पदार्थमभिप्रेयन्ति तनिचयजन्यो व्यवहारः । ये सौगतास्तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, तत्संघातघटित ऋजुसूत्र इति । तथा ये मीमांसकाः रूढितः शब्दानां प्रवृत्ति वाञ्छन्ति तन्निवहसाध्यः शब्द इति । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्तिं वाञ्छन्ति नान्यथा, तद्द्वारजन्यः समभिरूढ इति । ये तु वर्तमानकालभाविव्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते, तत्संघटितः खल्वेवंभूत इति । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसंग्राहका एते इति स्थितम् ।
सांप्रतमेषामेव प्रत्येकं मतमुपवर्णयामः – तत्र गमनं गमः परिच्छेद इत्यर्थः, निश्चितो गमः निगम: विविक्तवस्तुग्रहणं, स एव प्रज्ञादेराकृतिगणतया 20 स्वार्थिकाण्प्रत्ययविधानाद् नैगमः । यदि वा, निगम्यन्ते नियतं परिच्छिद्यन्ते इति निगमा: अर्थास्तेषु भवोऽभिप्रायो नियतपरिच्छेदरूपः स नैगम इति । अयं हि सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्वकर्मत्वादीनि तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणानवान्तरविशेषांश्चापेक्षया पररूपव्यावर्तनक्षमान् सामान्यादत्यन्तविनिर्लुठितस्वरूपानभिप्रैति । तथा हि 25 किल - संविनिष्ठाः पदार्थव्यवस्थितयः, न च सामान्यग्राहिणि विज्ञाने विशेषावभासोऽस्ति, अनुवर्तमानैकाकारपरामर्शेन तद्ग्रहणाद्, अन्यथा सामान्यग्राहकत्वायोगात् नापि विशेषग्रहणदक्षे संवेदने सामान्यं चकास्ति, विशिष्ट - देशदशावच्छिन्नपदार्थ ग्राहितया तत्प्रवृत्तेः, अन्यथा विशेषसंवेदनत्वायोगात् । न चैतौ परस्परविभिन्नावपि प्रतिभासमानौ सामान्यविशेषौ कथंचिन्मिश्रयितुं 30
Jain Education International
85
For Personal & Private Use Only
5
10
15
www.jainelibrary.org