________________
न्यायावतारः, २९
विकल्पोत्थापितानि प्रतिभासमुद्गरनिपातनिर्दलितमस्तकत्वान्न जीवितुमुत्सहन्ते इति । तस्मादसिद्धतादिदोषादिना कृतोऽयं तथाप्रतिभासलक्षणो हेतुरनेकान्तगोचरतां प्रमाणस्य परानभ्युपगमयति, इत्यलं विस्तरेण । तस्मात्तस्यैव तत्र प्रतिभासनात् सर्वसंविदामनेकान्तात्मकं वस्तु गोचर इति स्थितम् ॥ ___अयं च यथावस्थितप्रमाणव्यापारपर्यालोचकप्रमात्रभिप्रायेण प्रमाणगोचरो दर्शितः । नयस्तहि किंभूतं मन्यते इति वचनावकाशे सत्याह – 'एक' इत्यादि । अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयतीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । तस्य विषयो गोचरोऽभिमतः अभिप्रेतैकदेशेनानित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवच्छिन्न इत्यर्थः । अर्थः प्रमेयरूपः, प्रमाणमेवंविधमेवार्थ गृह्णाति-इति स्वाकृतेन तेन व्यवस्थापनादिति । अथ चाप्रमाणविषयां लक्षणसंख्यागोचरफलरूपां चतुर्विधां विप्रतिपत्ति निराकृत्य अत्रैव नयगोचरं निरूपयन्नाह-एकेत्यादि । ननु चादिवाक्यतः प्रमाणव्युत्पादनमात्रं प्रतिज्ञातं
तत् किमयमप्रस्तुतोऽत्र नयगोचरःप्रतिपाद्यते इति । सत्यम्, एवं मन्यते-न 15 नयः प्रमाणादत्यन्तं दूरयायी, किं तहि तदंशभूत एव, नयसमुदायसंपाद्यत्वात्
प्रमाणस्य, अतस्तद्वयुत्पादनप्रतिज्ञातेऽसावपि तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायाद गहीत एव, तन्नायमप्रस्तुत इति । अत्रापि पदार्थः स एव, केवलं वाक्यार्थभेदः । तथा हि-इहवं घटना । नयस्य विषय एकदेशविशिष्टोऽर्थो मतो नीतिविदामिति । ननु च यदि नयस्य प्रमाणान्तःपातित्वेऽपि पृथग् गोचरः प्रतिपाद्यते, ततः प्रमाणवदेतद्विषमा लक्षणादिविप्रतिपत्तिरपि निराकर्तव्या । सत्यम्, कि तु न परेषां नयव्यवहारः प्रसिद्धः, अतो धर्मिणोऽभावात् तद्गोचरा विप्रतिपत्तिर्नास्त्येव । न च ते तेन तत्त्वं प्रतिपादनीयाः, तत्त्वप्रतिपादने प्रमाणस्यैव व्यापारात्, नयस्य पुनरेकदेशनिष्ठत्वेन तत्प्रतिपादनसामर्थ्य विकलत्वात्, अत एवाचार्यस्य न तल्लक्षणादिस्वरूपकथनेऽपि महानादरः । गोचरं पुनर्हेयपक्षे काक्वा प्रक्षिपन साक्षात् प्रतिपादयति-मा भूत् स्वदर्शनान्तःपातिनां मन्दबुद्धीनां प्रमाणप्रतिपन्नेऽप्यनेकान्तात्मके वस्तुन्येकदेशसमर्थनाभिनिवेशलक्षणः कदाग्रह इति । अथवा स्वदर्शनान्तःपातिनः प्रति अनेनैव गोचरकथनेनोपलक्षणत्वाल्लक्षणादीन्यपि लक्षयति । तत्र
प्रमाणप्रतिपन्नार्थंकदेशपरामर्शो नय इति लक्षणम्, सर्वनयविशेषानुयायित्वात्पर30 रूपव्यावर्तनक्षमत्वाच्चास्य । संख्यया पुनरनन्ता इति, अनन्तधर्मत्वाद्वस्तुनः,
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org