SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः, २९ 83 प्रकाशो न विरुद्ध इति परस्यापि शठोत्तरं नातिदुर्लभं भवेत् । किं च नानाकारकलुषितचैतन्यसामान्यस्यान्यथानुपपत्तिसामर्थ्यतस्तस्य सिद्धत्वादद्वयसंवेदनमसिद्धं साधयेदयम्, अन्यथा निर्बन्धनतया साधनस्याप्रवृत्तेः, तथा च स्थिरस्थूराद्युपलक्षितार्थांशवशाद् विशकलितपरमाणुक्षणक्षयिपर्यायतादात्म्यं साधयन्तमनेकान्तवादिनं न प्रतिक्षेप्तुमर्हति, युक्तेरुभयत्रापि तुल्यत्वात् । 5 कि च, योऽयं सितपीताद्यनेकाकारनिर्णयोऽसावपि स्वसंवेदनापेक्षयाद्वयरूप इति भवदभिप्रायः, यथा चानवस्थाभीरुतया सर्व ज्ञानं स्वप्रकाशमभ्युपेतम्, तथा सर्वो निश्चयः स्वनिश्चायकोऽभ्युपगन्तव्यः, अन्यथा तत्राप्यनवस्थादोषोऽनुषज्येत, निश्चयाश्च सर्वथा स्वरूपं निश्चिनुयुः, नैकदेशेन, यतो निश्चयर्यन निश्चीयते रूपं तत्तेषां विषयः कथमिति स्वयमेव स्ववधाय 10 प्रलपितम्, तथा चाद्वयस्य क्षणक्षयिरूपस्य तैर्ग्रहणे विपरीतारोपाभावादादित एव अनुत्थानं संसारस्येति युक्तिरिक्त एवामुक्ताभिमानः स्यात् । न चैवम्, भवभावस्य प्रतिप्राणिप्रसिद्धत्वात् । तन्नायमितरेतराविनि ठितद्रव्यपर्यायप्रकाशो भ्रान्तः, तद्विपरीतार्थोपस्थापकप्रमाणान्तराभावादिति स्थितम् । यदा तु शून्यवादी निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति 15 पराभिप्रायप्रवृत्तानुमानबलाद् भ्रान्ततामस्य कथयेत्, तदा तं प्रति सालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् जाग्रहशाप्रत्ययवदिति विपरीतानुमानमुपढौकनीयम् । स यदि दृष्टान्तस्य साध्यविकलतामद्धावयेत, तदा तद्दष्टान्तेऽपि सा दर्शनीया। यदि पुनरसौ स्वप्नप्रत्ययस्य निरालम्बनत्वं भवद्भिरभिप्रेतमिति विलपन्नासितुं न दद्यात्, तदा स विकल्पतः पर्यनुयोज्यः-अस्मदभ्युपगमः प्रमाणं भवतोऽ- 20 प्रमाणं वा; प्रमाणं चेत्, यथा तबलाद् दृष्टान्तसमर्थनं तथा जाग्रत्प्रत्ययगोचरार्थसमर्थनमपि किं न कुरुषे, कोऽयमर्धजरतीयन्यायः । अथाप्रमाणम्, एवं सति स्वप्नप्रत्ययनिरालम्बनतासाधकं प्रमाणान्तरं मृगणीयम्, किमनेन कुशकाशावलम्बनेन । तत्रापि प्रमाणान्तरे विकल्पयुगलममलमवतरति, तत् किं निरालम्बनम्, सालम्बनं वा; निरालम्बनं चेत्, नान्यप्रत्ययस्य निराल- 25 म्बनतां गदितुं पटिष्ठ, निर्गोचरत्वात् । अथ सालम्बनम्, हन्त हतोऽसि, निरालम्बनाः सर्वे प्रत्यया इति प्रतिज्ञातक्षतेः, अनेनैव व्यभिचारादिति शठः प्रतिशठाचरणेन निर्लोठनीयः । तन्नास्यानकान्तिकत्वम् । विरुद्धताशङ्का पुनईरापास्तप्रसरैव, प्रमाणप्रकाशितेऽर्थे सर्ववादिनां तथाभ्युपगमाविगानादिति । अनेन संशयविरोधानवस्थावैयधिकरण्यासंभवादिदूषणानि निर्मूलकमिथ्या- 30 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy